________________
१२
प्रमाणमञ्जरी
[ द्रव्य
[अ. टी.] भोगसाधनं शरीरमित्युक्ते चक्षुरादिष्वतिव्याप्तिः । तस्मा॑त् इन्द्रियसंयुक्तमिति पदम् । चक्षुरादिसंयुक्तैघटादिविषयव्युदासार्थम् एवेत्युक्तम् । विषयाणां स्मृत्यादिगोचरत्वेनापि भोगसाधनानामवधारणार्थो नास्ति । मनसेन्द्रियेण संयुक्तस्यैवात्मनो भोगसाधनस्य व्यवच्छेदाय स्पर्शवदित्युक्तम् ।
द्वितीयं
[ वा. टी. ] स्पर्शवदिति । ईशेच्छादिनिवारणाय इन्द्रियसंयुक्तमिति । भ्रमादिनिवारणाय एवेति । स्मृतिगोचरत्वेनापि तस्य भोगकारणत्वात्ततो व्यावृत्तिः । कालादिनिवारणाय स्पर्शवदिति । चक्षुरादावतिव्यापकत्वात्तदतिरिक्ते सतीति वाच्यम् । यद्वा स्पर्शवद्भोगसाधनमिन्द्रियमित्येकं लक्षणम् । (त्रताद्यार्थः ? ) भोगस्साध्यते निष्पाद्यतेऽनेनेति भोगसाधनम्, भोगजनकात्मादिसंयोगाधिकरणमित्यर्थः । 'अर्श आदिभ्योऽजि'ति पाणिनीयस्मरणात् । आत्ममनोनिवृत्त्यर्थं स्पर्शवदिति । घटादिनिवृत्तये भोगेति । द्वितीयम् - इन्द्रियैस्संयुक्तमिन्द्रियसंयुक्तम् । संयोगश्चात्र पतनप्रतिबन्धकः, केशमस्तकसंयोगवत् । ततश्चेन्द्रियाणामधिकरणमित्यर्थः । एवञ्च न घटादावतिव्याप्तिः । एवकारस्तु वार्थे । तेजश्शरीरघटनिवृत्तये पदद्वयम् ।
.........
*
( पार्थिव शरीरं तद्विभागश्र )
गन्धवच्छरीरं पार्थिवं शरीरम् । खसमवेतसुखदुःखान्यतरसाक्षात्कारो भोगः । द्वेधा - योनिजायोनिज भेदेन । पूर्वमस्मदादीनां प्रत्यक्षसिद्धम् । उत्तरचं द्वेधा - प्रकृष्टधर्मजम् अन्यथा चेति ।
[ब. टी.] विशेषलक्षणमाह - गन्धवदिति । अत्र गन्धयोग्यता विवक्षिता, तेन न सुरभ्यसुरभ्यवयवारब्धेऽव्याप्तिः । जलीयशरीरेऽतिव्याप्तिवारणाय गन्धवदिति । घटादावतिव्याप्तिवारणाय शरीरमिति । शरीरलक्षणे प्रविष्टो भोग एव क इत्यत आहस्वेति । ईश्वरसाक्षात्कारस्य भोगवारणाय स्वेति । अस्मदादिसुखमीश्वरसम्बद्धं केनचित्सम्बन्धेन भवत्येवेत्यत उक्तम् - समवेतेति । साक्षात्समवेतेत्यर्थः । साक्षात्सम्बन्धतो वचने विषयतासम्बन्धेनास्मत्सुखमीश्वरसम्बद्धं भवत्येवेत्यत उक्तम् - समवेतेति । आत्मत्वादिसाक्षात्कारस्य भोगवारणाय सुखेति । सुखसाक्षात्कारत्वं दुःखसाक्षात्काराव्यापकम् । दुःखसाक्षात्कारत्वन्तु सुखसाक्षात्काराव्यापकम् । एतत्समुच्चितसाक्षात्कारत्वमसम्भवि, अत उक्तम् - अन्यतरेति ।
१ स्यात्तस्मादिति ज. ट. २ संयुक्तेष्टादीति ज. ट. * पा. सू. ५. २. १२७. ३ पार्थिवश रीरमिति ख, पदमिदं नास्ति क पुस्तके. ४ भोगार्थ इति क. ख. ५ तद्विविधमिति क. ६ योनिजभेदेनेति ख. ७ पूर्ध्वमिति ख. ८ चेति नास्ति ख. मुद्रितपुस्तकयोः. ९ धर्मेति ख. १०, ११ भोगत्वेति च १२ सुखसाक्षात्कारत्वं दुःखसाक्षात्कारत्वं दुःखसाक्षात्कारव्यापकं दुःखसाक्षात्कार व्यापकमित्यशुद्ध पाठः च पुस्तके. १३ असम्भव इत्यत इति च.