________________
निरूपणम्]
टीकात्रयोपेता
(अभावलक्षणं तद्विभागश्च ) भावनिषेधोऽभावः। स द्वेधा-जन्योऽजन्यश्च। प्रथमः प्रध्वंसः। उत्तरो द्वेधा-विनाशी अन्यथा चेति । आद्यः प्रागभावः । उत्तरो द्वेधा-समानाधिकरणनिषेधः अन्यथा चेति । पूर्व इतरेतराभावः। उत्तरोऽत्यन्ताभावः। नात्र प्राभाकरं प्रति प्रमाणमभिधानीयम् । निद्रामरणनिर्वाणाङ्गीकारात् । धिषणानिर्वाणं हि निद्रा। उपनिबन्धकादृष्टक्षयात् कलेवरवियोगो मरणम् । निखिलात्मविशेषगुणविलयो निर्वाणम् । अथ कथयसि त्वम्-प्रतियोगिनि ज्ञायमाने केवलाधिकरणोपलम्भ एव निद्रेति चेत्-'मैवं वोचः; विकल्पानुपपत्तेः । दृश्यस्य प्रतियोगिनो विज्ञानं किं सुप्तस्य ? किंवा यस्य कस्यचित् ? आये विकल्पे सुप्तः प्रतिबुद्धस्स्यात् । न द्वितीयः, परनरगतसंवित्तेः परंनरेण प्रत्यक्षेण ज्ञातुमशक्यत्वात् । परस्य यथाकथञ्चित् तत्र ज्ञानमस्तीति चेत्-न; परमाणुगुणानां यथाकथश्चिदवगतानां निषेधप्रसङ्गात् । तस्मादभावोऽङ्गीकर्तव्यः।
[ब. टी.] भावेति । यद्यपि पर्यायेण न लक्षणम् , अन्यथा घटः कलश इत्याधुक्त्या निवृत्तस्स्यात् । भावपदवैयर्थ्यश्च, तथाप्यभावत्वमखण्डमेव लक्षणम् । अन्यस्तु निष्प्रतियोगिको भावो न सम्भवतीति सूचयितुं भावपदं दत्तमित्याह । परे त्वभावनिषेधे घटादावतिव्याप्ति वारयितुं भावेत्युक्तमित्याहुः। समानाधिकरणेति । समानाधिकरणजातीय निषेध इत्यर्थः । साजात्यन्तु अभाव विभाजकोपाधिना । तेनावृत्तिपदार्थान्योन्याभावस्य नासङ्ग्रहः । अयमयं न भवतीत्यादिप्रतीत्या विषयीक्रियमाण इति वार्थः। अन्यथा चेति । स्ववृत्यवच्छेदेन स्वव्यधिकरण इत्यर्थः । तेन कालभेदेन घटसमानाधिकरणस्य घटात्यन्ताभावस्य नासङ्ग्रह इति भावः । न च प्रागभावध्वंसयोरतिव्याप्तिः, प्रतियोगिकाले वर्तमानत्वे सतीति विशेषणात् । अन्ये तु संसर्गाभावमादायाप्यखण्डा एवेत्याहुः । न चाकाशात्यन्ताभावाद्यसङ्ग्रहः, तस्य वृत्त्यसिद्धेरिति वाच्यम् । तस्यापि तादृशव्यधिकरणजातीयत्वात् । धिषणेति । प्रहारा(ध दि)प्रयोज्यबुध्यभावे निद्रासुषुप्तिर्व्यवह्रियत इति भावः । यद्वा सुषुप्तिः पुरीततिदेशे मनसोऽवस्थानम् । एवञ्च ज्ञानाभावात्सुषुप्तिर्भिनैवेति बोध्यम् । तथा च धिषणानिर्वाणसमापनं सुषुप्तिरित्यर्थो बोध्यः । न तु ज्ञानाभावः केवलाधिकरणमेवेत्यत आह उपनिवन्धकेति । उपनिबन्धकत्वं शरीरादिना सह सम्बन्धरूपत्वं शरीरादिजनकत्वं वा । क्षयो ध्वंसरूपोऽभावः स्वीकृतः । कलेवरस्य विलयो ध्वंस एव खीकृतः।
. सामानाधिकरण्येति ख. २ हीति नाति ग घ, पुस्तकयोः. ३ कथं दृश्ये इति मु. ४ मैवमवोच इति मु. ५ श्यप्रतियोगिन इति क. ६ पदमिदं नास्ति ख, घ पुस्तकयोः ७ प्रबुद्ध इति क, ख, प. परतरवृत्तीति मु. ९ परतरेणेति मु. १० भावत्वादयोऽपीति च.११ समये इतिच.
IRTAITHILI