________________
निरूपणम् ]
टीकात्रयोपेता
८७
म्बन्धेन प्रतीयमाने रूपादौ व्यभिचारवारणाय इन्द्रियेति । अत्रापि लौकिकप्रत्यास - तिर्बोध्या । धर्मधर्मिणोरभेदवादिमते साक्षात्पदस्यापि व्यर्थता बोध्या ।
[अ. टी.] तथापि शब्दानित्यत्वानुमानं न युक्तमिति शङ्कते - शब्दो नित्य इति । विशेषगुणत्वादित्युक्ते बुध्यादौ व्यभिचारस्स्यादत उक्तम् भूतपदम् । घटरूपादौ व्यभिचारवारणार्थं नित्यपदम् । नित्यभूतविशेषगुणत्वादित्युक्तेऽपि पार्थिवपरमाणुरूपादौ व्यभिचारस्ततः अपाकजपदम् । प्रतिपक्षानुमानस्य दौर्बल्यान्मैवमित्याह नास्येति । स्वयूथ्यापसिद्धान्तापादकत्वादवचनीयोऽयं प्रयोग इत्यर्थः । तथापि निर्दुष्टप्रयोगविरोधे कथं पूर्वस्य सद्धेतुत्वं तत्राह - कोऽयं व्यतिरेक इति । यत्रानित्यत्वं तत्रापाकज नित्यभूतविशेघगुणत्वं नास्तीति व्यतिरेकस्य शब्दानित्यत्ववादिना वक्तुमशक्यत्वात् । नित्यत्वाङ्गीकारेऽपि पार्थिवपरमाणुगतानादिश्यामत्वे पाकजैनिवर्से साध्याभावेऽपि साधनभावाव्यतिरेकाभावात् गुरुमते चाभावाभावात् व्यतिरेकार्थं तदङ्गीकारेऽपसिद्धान्तापातान्नाद्य इत्याह नाद्य इति । अन्यस्य व्यतिरेकस्याप्रसिद्धत्वान्नान्त्योऽपि युक्त इत्याह अन्यश्चेदिति । परः प्रकारान्तरं सम्पादयति दृश्ये प्रतियोगिनीति । दृश्ये प्रमाणदर्शनयोग्ये हेतुलक्षणप्रतियोगिनि स्मर्यमाणे सति यो विपक्षोपलम्भस्तद्विशिष्टाद्विपक्षार्त्ततो या व्यावृत्तिर्हेतोः स व्यतिरेकः । प्रमाणयोग्यस्य हेतोः प्रमाणयोग्य विपक्षाद्व्यावृत्तिर्हेतोर्व्यतिरेक इति संक्षेपः ।
अत्र वक्तव्यम् - किं यथा भूतले प्रमाणदृष्टस्य घटस्य कदाचिदभावग्रहः तथा विपक्षे" प्रमाणगृहीतस्य हेतोस्तत्राभावः प्रमा ? किं वा गगने प्रमाणगृहीतस्य सूर्यादेर्भूमाव - भाववदन्यत्र प्रमितस्य हेतोरभावग्रहो विपक्षे ? तत्र न प्रथम इत्याह- नानुभूयमान इति । प्रमीयमाणे विपक्षे पश्यतो हेतुमिति शेषः । अभावासम्भवादयमन्वयव्यतिरेकी हेतुर्न स्यात् । द्वितीयमुत्थापयति- ततोऽननुभूयमान इति । यतोऽनुभूयमानत्वे उक्तदोषस्ततोऽननुभूयमाने तस्मिन् हेतौ केवैलं विपक्षोपलम्भः सर्वकालं ततो व्यावृत्तिर्हेतोर्व्यतिरेक इत्यर्थः । तत्रापि वक्तव्यम्-यत्र हेतुर्वर्तते, तेन सहैव विपक्षे समारोपनिषेधाभ्यां व्यावृत्त्यवगमः, यथा भूतले सह नभसा चन्द्रोऽयमिति समारोपनिषेधाभ्यां तदभावावगतिः । किमेवञ्चेतत्राह-न मेयत्वादीनामिति । विपक्षे सपक्षभ्रान्तौ तन्निषेधे प्रमेयत्वादिहेतोरुक्तव्यतिरेकसम्भवेन गमकत्वम् । ततः शब्दानित्यत्वादिसाधने प्रमेयत्वादिहेतोरनैकान्तिकत्वाभौसत्वोच्छेदप्रसङ्ग इति भावः । किञ्च यत्र प्रतिज्ञाद्यन्यतमावयवदर्शनादनुमानमूह्यते, तत्र वाचनिकविपक्षोपलम्भाभावादुक्तव्यतिरेकासिद्धावनुमितानुमानभङ्गस्स्यादित्याह अनुमितेति । अथवा व्यतिरेकानिरूपणादेवानै कौन्तानुमानोच्छेदो द्रष्टव्यः, गुरुमते व्यावृत्तेरस -
१ गुणत्वादिति झ. २ उक्तमिति नास्ति ज, ट पुस्तकयोः ३ यूथ्यस्येति ज, ट. ४ गतादिश्यामस्व इति ट. ५ पाकनिवति ज, पाकानिवति ट. ६ साधनाभावादिति झ. ७ यथास्थितमपि भ्रान्त्या पर इति ट. ८ तत इति नास्ति ट पुस्तके. ९ ग्रहणमिति ट. १० परपक्ष इति ट. ज, ट. १२ अन्वव्यतिरेकाभ्यामित्यधिकं ट पुस्तके. १३ यद्येवमिति ट. १४ भासोच्छेदेति झ. न्तानुमितानुमानेति ट.
११ केवलेति १५ अनैका