________________
विद्या० टीका श्लो० ३१ ]
'कृतकः यदि यथा घटस्तथा शब्दः प्राप्तः तर्हि यथा शब्दस्तथा घट इति, शब्दच साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात्, न चेदेवं तथापि वैलक्षण्यात् सुतरामदृष्टान्त' इति ८ ।
४७
प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती, यथा - ' यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत् किं माप्य साधयत्यप्राप्य वा ? प्राप्य चेद् द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति द्वयोश्च सत्वात् किं कस्य साध्यं साधनं वा ? अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्कादि ति ९-१० ।
अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः, यथा - 'यद्यनित्यत्वे कृतकत्वं साधनं, कृतकत्व इदानीं किं साधनं, तत्साधने किं साधनमिति ११ ।
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्ते समा जातिः, यथा 'S नित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदि ' त्युक्ते जातिवाद्याह' - यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाश - नित्यमपि प्रयत्नानन्तरीयकं दृष्टम्, कूपखननप्रयत्नानन्तरमुपलम्भादिति, न चेदमनैकान्तिकत्वोद्भावनं, भङ्गयन्तरेण प्रत्यवस्थानात् १२ ॥
अनुत्पच्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः, यथा - 'अनुत्पन्ने