________________
विद्या टोका श्लो० ३०] कारणं, कयोः? आचार्यशिष्ययो,आचार्य:-गुरुरध्यापक, शिष्य अध्येता विनेय इति,कस्मात् ? पक्षप्रतिपक्षपरिग्रहात , पक्षः-पूर्वपक्षा प्रतिज्ञा दिसङ्ग्रहः, प्रतिपक्ष:-उत्तरपक्षः पूर्वपक्षवादिभयुक्तमविज्ञाविप्रतिपन्थिकोपन्यासपौढिः, तयोः परिग्रहात्-सङ्ग्रहादित्ययः । आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे-शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षखण्डयति, एवं निग्राहकजयपराजयछलनात्याधनपेक्षतयाऽभ्यासनिमिर्च पक्षपतिपक्षसङ्ग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो क्षेयः ॥ २९ ॥
अथैतद्विशेषमाहविजिगोषुकथायां तु, छलजात्यादिदूषणम् । स जल्पः सा वितण्डा तु, या प्रतिपक्षविवर्जिता॥३०॥
व्याख्या-'स जल्द' इति सम्बन्धः। यत्तु 'विलिगोषुकथायां' विजयाभिलाषिवादिप्रतिकादिप्रारब्धप्रमाणोपन्यासगोष्ठयां सत्या 'छलजात्यादिदूषणं, ' छलं त्रिप्रकारं-वाक्छलं १,सामान्यच्छल २, उपचारछलं ३, चेति, जातयश्चतुर्विंशतिभेदाः, आदिशब्दानिचतुरङ्गा-बादिप्रतिवादिसभापतिप्राश्नकाङ्गा, विजिगीषुकथा जल्पवितण्डासंज्ञोक्ते' ति तर्करहस्यदीपिकावृत्तौ । (पृ. ३१) १. क्षि पु.। २. ग्रहेण पु.। ३. अथ तद्विशे' ध। ४. 'गोषोः क° ध.।