________________
ॐ अहम् । नमः प्रकट-प्रभावि-श्री-दर्भावती-पार्श्वनाथाय ।
तपोगच्छ-गगन-दिनमणि-परमगुरु-पू०-आचार्यश्री १००८ विजयकमल-दान-प्रेम-सरिपुरन्दरेभ्यो नमः । भीरुद्रपल्लीयगणमौक्तिक-श्रीविद्यातिलकमुनीन्द्र-विरचित
संक्षिप्तवत्यलकृतः पूज्यपादाचार्य-याकिनीमहत्तरा . सुनु-श्री-हरिभद्रसूरिशेखरसंहब्धोऽयं
श्री षड्दर्शनसमुच्चयः।
सज्ज्ञानदर्पणतले विमलेन यस्य,
ये केचिदर्थनिवहाः प्रकटीवभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्म
प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥१॥ जैनं यदेकमपि बोधविधायिवाक्य
मेवं श्रुतिः फलवती भुवि येन चक्रे । चारित्रमाप्य वचनेन महत्तरायाः,
श्रीमान्स नन्दतु चिरं हरिमद्रसरिः ॥२॥ संनिधेहि तथा वाणि!, षड्दर्शनाङ्कषभुजे । यथा षड्दर्शनव्यक्ति, स्पष्टने प्रभवाम्यहम् ॥३॥