________________
प्राचीनोऽज्ञातकर्तृको लघुषड्दर्शनसमुच्चयः ।
जैनं नैयायिकं बौद्ध, काणादं जैमनीयकम् ।
साङ्ख्यं षड्दर्शनीयं, [च] नास्तिकीयं तु सप्तमम् ॥१॥ जैनदर्शने अर्हन् देवता,
जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ ।
बन्धो विनिर्जरा मोक्षो, नव तत्त्वानि तन्मते ॥
प्रत्यक्षं परोक्षं चेति प्रमाणद्वयम्, नित्यानित्याद्यनेकान्तवादः, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सकलकर्मक्षये नित्यज्ञानानन्दमय व मोक्षः ।
नैयायिकाः पाशुपता जटाघरविशेषाः । तेषां दर्शने ईश्वरो देवता, प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभा. सच्छलजातिनिग्रहस्थानानि षोडश तत्त्वानि, प्रत्यक्षमनुमानमुपमानमागमश्चेति चत्वारि प्रमाणानि, नित्यानित्यैकान्तवादः, आत्मादिप्रमेयतत्त्वं ज्ञानं मोक्षमार्गः, षडिन्द्रियाणि षड् विषयाः षड् बुद्धयः सुखं दुःखं शरीरं चेत्येकविंशतिः (ति) प्रतिभेदभिन्नस्य दुःखस्यात्यन्ताच्छेदश्च मोक्षः ।
बौद्धा रक्तपटा भिक्षुकाः । तेषां दर्शने बुद्धो देवता, दुःखसमुदयमार्गनिरोधरूपाणि आर्यसत्यसंज्ञानि चत्वारि तत्त्वानि, प्रत्यक्षमनुमानं चेति द्वे प्रमाणे, क्षणिकैकान्तवादः, सर्वक्षणिकत्व सर्वनैरात्म ( त्म्य) वासना मोक्षमार्गः, [स] वासन (ना) क्लेश (स) मुच्छेदे प्रदीपस्येव ज्ञानसन्तानस्योच्छेदश्च मोक्षः । कणादस्य चाचार्यस्येदं काणादं जटाधरविशेषवैशेषिकदर्शनम् । तत्र ईश्वरो देवता, द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानि षट् तत्त्वानि,