________________
૧૪૫
विद्या० टीका श्लो. ८४-८५ ]
१५१ ___ व्याख्या-पृथिव्यादीनि पृथिव्यप्तेजोवायुरूपाणि यानि भूतानि तेषां संहत्यां मेले संयोगे सति, तथेत्युपदर्शने, देहादि. सम्भवः, आदिशब्दादितरे भूभूधरादिपदार्था अपि भूतचतुष्टयसंयोगजा एव ज्ञेयाः । दृष्टान्तमाह-यद्वत येनप्रकारेण सुराङ्गेभ्यो मुडधातक्यादिभ्यो मद्याङ्गेभ्यो मदशक्तिरुन्मादकत्वं भवति तद्वत् तयाभूतचतुष्टयसम्बन्धात् शरीरे आत्मता स्थिता, सचेतनत्वं जातमित्यर्थः ॥ ८४ ॥
इति स्थिते यदुपदेशपूर्वकमुपसंहारमाहतस्माद् दृष्टपरित्यागां-ददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं, चार्वाकाः प्रतिपेदिरे ॥८५॥
व्याख्या-तस्मादिति, पूर्वोक्तानुस्मारणपूर्व तस्मात्' ततः कारणाद् दृष्टपरित्यागात् 'दृष्टं पेयापेयखाद्याखाधगम्यागम्यादिरूपं प्रत्यक्षानुमाव्यं यत् मुखं तस्य परित्यागात् ; 'अदृष्टे' तपश्चरणादिकष्टक्रियासाध्ये परलोकमुखादौ, 'प्रवर्त्तनं' प्रवृत्तिः, चः समुच्चये, यत्तदो¥यत्यात् पूर्वार्द्ध यत्सम्बन्धो ज्ञेयः, तल्लोकस्य 'विमूढत्वम्'अज्ञानत्वं चार्वाका लोकायतकाः 'प्रतिपेदिरे प्रपन्नाः।
१४५. “ एवं स्थिते यथोपदिशन्ति तथा दर्शयन्नाह"- इति वृ० वृ० पृ. १२४ ।
१. गाद्, यदद्दष्टे में ध. । २ प्रतिप घ. ।