________________
१४२
[षड्दर्शनस०
घटपञ्चप्रमाणप्ररूपिणः, ये तूत्तरमीमांसावादिनस्ते वेदान्तिनोब्रह्माद्वैतमेव मन्यन्ते, 'सर्वमेतदिदं ब्रह्म ' इति भाषन्ते, प्रमाणं च यथा तथा वदन्ति, एक एवात्मा सर्वशरीरेषूपलभ्यते इति जल्पन्ति-" एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” इति वचनात् , " पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम्" इति वचनाच्च, आत्मन्येव लयं मुक्तिमाचक्षते, न त्वपरां कामपि मुक्तिं मन्यन्ते, ते च द्विजा एव भगवनामधेयाश्चतुर्धाभिवीयन्ते-कुटोचरबहूदकहंसपरमहंसभेदात् , तत्र त्रिदण्डी सशिखो ब्रह्मसूत्री गृहत्यागी यजमानपरिग्रही सकृत्पुत्रगृहेऽश्नन् कुटयां निवसन् कुटीचर उच्यते, कुटोचरतुल्यवेषो विप्ररोहनैराश्यभिक्षाशनो विष्णुजापपरो नदीनीरस्नायी बहूदकः कथ्यते, ब्रह्मसूत्रशिखाभ्यां रहितः कषायाम्बरदण्डधारी ग्रामे चैकरात्रं नगरे च त्रिरात्रं निवसन् विधूमेषु विगताग्निषु विप्रगेहेषु भिक्षां भुञ्जानस्तपःशोषितविग्रहो देशेषु भ्रमन् हंसः समुच्यते, हंस एवोत्पन्नज्ञानश्चातुवर्ण्यगेहभोजी स्वेच्छयादण्डधार ईशानों दिशं गच्छन् शक्तिहोन तायामनशनग्राही वेदान्तैकध्यायी परमहंसः समाख्यायते, एतेषु चतुर्पु परः परोऽधिकः, एते च चत्वारोऽपि केवलब्रह्माद्वैतवादसाधनैकव्यसनिनः शब्दार्थयोर्निरासायानेका युक्तीः स्फोरयन्तेोऽनिर्वाच्यतत्त्वे यथा व्यवतिष्ठन्ते तथा खण्डनतर्कादभियुक्त. रवसेयम् , नात्र तन्मतं वक्ष्यते । इह तु सामान्येन शास्त्र कारः पूर्वमीमांसा
_+ " कुटीचरो मठावासी यजमानपरिग्रही । बहूदको नदीतीरे स्नातो नैरस्यभैक्ष्यभुक् ॥ ४ ॥ (राजले. १० स० पृ. ७)