________________
विद्या० टीका श्लो० ५८ ]
૧૨૦
भावः, अयं भावो यत्-परतीर्थिकानां मूलशास्त्रेष्वपि न युक्तियुक्ततां पश्यामः किं पुनः पाश्चात्यविमलम्भकग्रथितग्रन्थकन्यासु, यच्च क्वापि कारुण्यादिपुण्यकर्म पुण्यानि च वचांसि कानिचिदाकर्णयामस्तान्यपि त्वदुक्तसूक्त सुधापयोधिमन्थोद्गतान्येव रत्नानीब सङ्गृह्य स्वात्मानं रत्नपतय इव बहुमन्वाना मुधा प्रगल्भन्ते । * यच्छ्रीसिद्ध सेनदिवाकरपादाः-
११७
सुनिश्चितं नः परतन्त्र युक्तिषु, स्फुरन्ति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्व + महार्णवोत्थिताः, जगत्प्रमाणं जिनवाक्य विपुषः ॥ (५६) इति
૧૨૧ परमार्थः ॥ ५८ ॥
१२० " अयं भावः- यथा परदर्शन संबन्धिषु मूलशास्त्रेष्वपि किं पुनः पाश्चात्यविप्रलम्भकप्रथितग्रन्थ कन्यासु प्रथमपश्चादभिहितयोर्मिथो विरोधोऽस्ति तथा जैनदर्शने क्वापि केवलिप्रणीतद्वादशाङ्गेषु पारम्पर्यप्रन्येषु च सुसंबद्धार्थ - त्वात्सूक्ष्मेक्षिकया निरीक्षितोऽपि स नास्ति । यत्तु परदर्शनेष्वपि क्वचन सहृदयहृदयङ्गमानि वचनानि कानिचिदाकर्णयामः तान्यपि जिनोक्कसुधासिन्धुसमुद्गतान्येव संगृह्य मुधा स्वात्मानं बहु मन्वते, यच्छ्रीसिद्धसेनपादाः - " इति बृ. बृ. पृ. १०३ ।
यच्छ्री दिवाक पु. । यतः श्रीदिवाक ध. + प्र. १२१
66
अथ जैनमते लिङ्गवेषाचारादि प्रोच्यते - जैना द्विविधाः
*