________________
विचा० टीका श्लो० ४८-४९ ]
भिरिति । भेदाश्च धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणा अद्धा केवलपरमाणुश्चेति चतुर्दशाऽजीवमेदा इति । पुण्यं सत्कर्मपुद्गला इति, पुण्यं नाम तत्त्वं कीदृगित्याह-'सत्कर्मपुद्गला' इति, सत्शोभनं सातवेधं कर्म, तस्य पुद्गला-दलपाटकानि पुण्यप्रकृतय इत्यर्थः, ताश्च द्विचत्वारिंशत् , तद्यथा
नरतिरिसुराउ उच्चं, सायं परघाय आयवुजोयं । तित्थुस्सासनिमेणं, पणिदिवयरुसभव उरंसं ॥ (४२)
९८ तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपी द्रव्यमस्तिकायोऽसंख्य - प्रदेशो गत्युपग्रहकारी च भवति ।....एक्मधर्मोऽपि लोकव्यापितादिसकलविशेषणविशिष्टो धर्मवनिर्विशेष मन्तव्यः, नवरं स्थित्युपग्रहकारी ।....एवमाकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपिद्रव्यमस्तिकायोऽवगाहोपकारकं च वक्तव्यम् ।....कालोऽर्धत्तीयद्वीपान्तर्वर्ती परमसूक्ष्मो निर्विभाग एकः समयः,....स च सूर्यादिग्रहनक्षत्रोदयास्तादिक्रियाभिव्यङ्ग्य एकीयमतेम द्रव्यमभिधीयते ।....स्पर्शरसगन्धवर्णवन्तः पुद्गलाः,....न केवलं पुद्गलानां स्पर्शादयो धर्माः, शब्दादयश्चेति दृश्यते-" शब्दबन्धसौम्यस्थौल्यसंस्थानमेदतमच्छायातपोद्योतक्तश्च" ( तत्वार्याधिगम पृ० २४) ".पुद्गलाः ।" इति बृ० वृ• पृ० ६५-६७)।
९९ नव्यपञ्चमकर्मग्रन्थे त्वेतदर्थसंवादिकास्तिस्रो गाथा इमाः