________________
सनातनजैनग्रंथमालायां सस्य । ततः सन्निकर्षाभावेपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य । न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धं, प्रत्यक्षतस्तथैव प्रतीतेः । ननु प्रत्यक्षागम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन । साधयिष्यामः परमाणुवत् । यथा प्रत्यक्षासिद्धोपि परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते, तथा चक्षुः प्राप्तार्थप्रकाशकं बहिरिद्रियत्वात्त्वगिंद्रियवदित्यनुमानात्प्राप्तिसिद्धिः । प्राप्तिरेव हि सन्निकर्षः । ततो न सन्निकर्षस्याव्याप्तिरिति चेन्न, अस्यानुमानाभासत्वात् ।
तद्यथा- चक्षुरित्यत्र कः पक्षोऽभिप्रेतः, किं लौकिकं चक्षुरुतालौकिकं ? आये-हेतोः कालात्ययापादष्टत्वं गोलकाक्षस्य चक्षुषो विषयप्राप्तः प्रत्यक्षबाधितत्वात् । द्वितीये त्वाश्रयासिद्धः, अलौकिकस्य चक्षुषोऽद्याप्यसिद्धेः । शाखासुधादीधितिसमानकालग्रहणाद्यन्यथानुपपत्तेः चक्षुरप्राप्यकारीति निश्चीयते । तदेवं सन्निकर्षाभाबेपि चक्षुषा रूपप्रतीतिर्जायते इति सन्निकर्षोऽव्यापकत्वात् प्रत्यक्षस्य स्वरूपं न भवतीति स्थितं ।
अस्य च प्रमेयस्य प्रपंचः प्रमेयकमलमार्तंडे सुलभः । संग्रहग्रंथत्वात्तु नेह प्रतन्यते । एवं च न सौगताभिमतं निर्विकल्पक प्रत्यक्षं । नापि योगाभिमत इंद्रियार्थसन्निकर्षः । किं तर्हि ! विशदप्रतिभासं ज्ञानमेव प्रत्यक्षं सिद्धं ।
तत्प्रत्यक्षं द्विविधं सांव्यवहारिकं पारमार्थिकं चेति । तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षं । यज्ज्ञानं देशतो विशदमीषन्निर्मलं तत्सांव्यवहारिकप्रत्यक्षमित्यर्थः । तच्चतुर्विध-अवग्रहः, ईहा, अवायो, धारणा चेति ।
तत्रंद्रियार्थसमवधानसमनंतरसमुत्थसत्तालोचनानंतरभावी सत्तावांतरजातिविशिष्टवस्तुग्राही ज्ञानविशेषोऽवग्रहः । यथाऽयं पुरुष