________________
नयरहस्यप्रकरणम् ।
१३७ पत्रे, १२ पतौ. 'प्रकृतेति' इत्यनन्तरम्
चैतन्यस्वरूपप्राणधारणलक्षणजीवनरूपधात्वर्थस्यापि चेत्रमैत्रादिसकलजीवेषु विभिन्नत्वमेव, तत्रापि प्रत्येकं प्रतिक्षणं भिन्नत्वमिन्येवं चैतन्यसन्तानानामनेकेषामुररीकारापेक्षया जीवमात्रव्यापि एकचैतन्यमेवेति निक्षेपान्तरं लाघवादाश्रितं भवति, तथाभूतस्यापि व्यापकीभूतस्य चैतन्यस्य मायालक्षणशक्तिमत एवं भाव इति निक्षेपान्तरम, मायाऽप्यनिर्वचनीया वस्तुतो नास्त्येवेति केवलमेव चतन्यमिति निक्षेपान्तरं ब्रह्मवादियुक्क्याऽऽश्रितं भवति, तदेव चैतन्यं सच्चिदानन्दस्वरूपम्, तदधिष्ठानकवादेव तद्विवर्तेष्वनिर्वचनीयेषु घटादिषु सदादिप्रतीतिरिति निक्षेपान्तरमुपतिष्ठते, निर्धर्मकं तच्चैतन्य सत्त्व-चित्त्वा-ऽऽनन्दत्वादिधर्मविकलत्वान्न सदादिव्यपदेश्यमित्यद्वैतमेव तदिति निक्षेपान्तरमप्यागच्छति, द्वैतस्य वस्तुतोऽभावे तद्विरोधिनो नाऽद्वैतस्यापि सम्भवः, घट-पटादीनाम सतां निरधिष्ठानक एव भ्रमः, अन्ते च स्वत एव भ्रमसन्ततिनिरुध्यत इति शून्यतैव तत्त्वमिति चैतन्याश्रितविचारपरम्परायां यदि न ब्रह्मविवादे विश्रामः, किन्तु तत्रापि विकल्पतोऽवान्तरसूक्ष्म-सूक्ष्मतर सूक्ष्मतमचैतन्यस्वरूपकल्पनाऽऽश्रीयते तदाऽनवस्था, तद्भयाद्ब्रह्माविवादे शून्यतायां वोक्तनीत्या पर्यवसानम्, तदा शुद्धचैतन्यात्मकप्राणधारणलक्षणजीवनरूपधात्वर्थात्मकप्रकृतमात्रस्यापर्यवसानं स्यात्, अतः सम्प्रदायमनतिक्रम्यैवौदयिकभावरूपजीवनस्यैवैवम्भूतनये जीवपदव्युत्पत्तिनिमित्तक्रियात्वमुचितमिति ॥ इति श्री 1पोगच्छाधिपति-शनसम्राड्-जगद्गुरु-श्रं विजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणाचसति-शास्त्रविशाद-कविरत्न-श्रीविजयलावण्यसूरिणा
विरचिता नयरहस्यप्रकरणस्य प्रमोदा विवृतिः
समाप्ता।