________________
नयरहस्यप्रकरणाम्।
प्रस्थकाधिकारशः, स प्रस्थकोपयोगतो वाणिज्यं प्रस्थकनिमित्तं क्रय-- विक्रयादिलक्षणं विधातुं प्रगल्भत इति तत्पुरुषविशेषगतं प्रस्थका. कारज्ञानं प्रस्थकनिश्चयमानात्मकत्वात् प्रस्थक इतिः यश्च काष्ठमृत्तिकादापादानकाऽऽकारविशेषान्मकप्रस्थककर्ता पुरुषः स निर्माणसमयात् पूर्वमेव बुद्धौ ‘इदमिन्थं भवितुमर्हति' इत्याकलय्य निर्मिमीने प्रस्थकमिति तद्गतं यत् प्रस्थकज्ञानं तदपि नेयमानस्वरूपप्रस्थकनिश्चयमानात्मकत्वात् प्रस्थकः तदतिरिक्त नुनिश्चयमानाऽनात्मकत्वान्न प्रस्थक, इत्याह--प्रस्थकाधिकारजगतादिति। अयमभिप्रायः-मानविशेषनिर्णयप्रयोजनक एव प्रस्थकः, मानविशेषनिर्णयश्च न स्वरूपसतो बाह्यप्रस्थकात्, तथा सति प्रस्थकैकद्वयादिपरिमितधान्यविशेषक्रय.. विक्रयार्थ वाणिज्यवीधीमुपगतः पुमान् तद्वयवस्थितवाहाप्रस्थकादेव प्रस्थकाधिकारशवचनमन्तरेणैव 'प्रस्थकप्रभितमिदं धान्यम, अयं वा प्रस्थकः' इत्यवधारयेत्, तथावधारणतश्च क्रय विक्रयादिव्यवहारमपि निःसंदिग्धं प्रवर्तयेत्, न चैवम्, किन्तु प्रस्थकाधिकारशवचनादेव 'इदं प्रस्थकमितं धान्यम्, एव मापकः प्रस्थकः, एतन्मितं च प्रस्थकः' इत्याकारात् प्रस्थकादिमापक-मेयादिकमवधारयति व्यवहारविशेष व प्रवर्तयति, वचनं च तस्य तत्र न साक्षादेव प्रमाणं जडस्वरूपस्थ तस्य निश्चयप्रमाणात्मत्वाभावात, किन्तु स्वोल्लिखितं यत् प्रस्थकाधिकारक्षगतं प्रस्थकमानं तदेव निश्चयप्रमाणात्मकमिति तद्वारा तत् प्रमाणमिति, अत एव स्वाभिमुखदेशे मापकविशेषेण परिच्छिद्यमा. नमपि धान्यमिदं प्रस्थकमितं यथावत् किं वा नेति विवादे प्रमाणम. प्रायं देवदत्तः प्रस्थकाधिकारश इति लौकिका अपि व्यवहरन्ति देवदत्तादेश्च प्रामाण्यं स्वगतप्रस्थकोपयोगात्मकनिश्चयप्रमाणाधारवादेवेति सियति प्रस्थकोपयोगस्यैव प्रस्थकत्वमितिः एवं प्रस्थककर्तुर्यद् 'अयं प्रस्थकः' इति ज्ञानं तदेव प्रस्थकः, यतः प्रस्थककत. पुरुषसकाशात् प्रस्थकाद्यादानकर्ता न बाह्यकं प्रस्थकं पश्यन्नपि प्रस्थक पवायमित्यवधारयति. किन्तु प्रस्थककर्तारं पृच्छति-पतेषु