________________
स्वत्ववादः ।
अर्थवं स्वत्वस्वामित्वयोभिन्नपदार्थत्वे त्रस्य धनमित्यादौ स्वत्वं वा षष्टयर्थः स्वामित्वं वेत्यत्र विनिगमनाविरहः । न च स्वामित्वस्य षष्टयर्थत्वे चैत्रस्य धनमितिवद्धनस्य चैत्र इत्यपि प्रत्ययः स्याच्चैत्रस्य धननिरूपितस्वामि स्वाश्रयत्वादिति वाच्यम्, स्वत्वस्य षष्टयर्थत्वेऽपि तादृशप्रत्ययस्य दुर्वारत्वाद्धननिष्ठस्वत्वनिरूपकत्वाच्चैत्रस्य । षष्ट्यर्थस्वत्वस्य निरूपितत्वसम्बन्धेनैव प्रकृत्यर्थे विशेष्यतयाऽऽश्रयतासम्बन्धेनैव चानुयोगिनि विशेषणतयान्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तिकल्पने च स्वामित्वस्य षष्टयर्थत्वेऽपि षष्ठयर्थस्वामित्वस्य निष्ठतासम्बधेनैव प्रकृत्यर्थे विशेष्यतया निरूपकतासम्बन्धेनैव चानुयोगिनि विशेषणतयान्वयो न तु सम्ब. न्धान्तरणेति व्युत्पत्तेरपि सुवचत्वादिति चेत् १, स्वामित्वस्य षष्टयर्थन्वे चैत्रीये धनेऽपि नेदं चैत्रस्येति व्यवहारापत्तेः, स्वामित्वस्य चैत्रवृत्तितया तदभावरय सुतरां धने सत्त्वात् ।
अथ तत्र तत्संसर्गाभावबोधे तत्र तत्पदोपस्थापितस्य प्रतियोगिनः तादात्म्यातिरिक्तसम्बन्धेनान्वयबोधस्तन्त्रम् , नत्वाधाराधेयभावेन । येन च सम्बन्धेन यत्पदोपस्थापितस्य प्रतियोगिनोऽन्धयस्तत्सम्बन्धावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबललभ्यम् , अन्यथा स्वत्वस्यापि संयोगादिनाऽभावस्य सार्वत्रिकत्वेन तवाऽप्यतिप्रसङ्गात् । तथा च प्रकृते निरूपकतासम्ब