________________
[ १३३ ६ अदृष्टसिद्धिवादः। 'कालान्तरभाविफलानुकूलविहितनिषिद्धक्रियाजन्यभावव्यापाररूपमदृष्टमप्रामाणिकमिति बाह्याः । तन्न दानदयात्रमचर्यादिक्रियाणां वैफल्यप्रसङ्गात् । 'दृष्टधान्याद्यव्या(वा)प्तिफलककृष्यादिक्रियावद्दानादिक्रियाणामपि दृष्टमनःप्रसादादिफलकत्वमेवेति चेत् ? न, मनःप्रसादादेरपि फलवत्वान्यथाऽनुपपत्त्याऽदृष्टस्यैव सिद्धः। अथ दानादिक्रियाणां श्लाघादियत्किञ्चिदृष्टफलेनैव पर्यवसितत्वान्न शुभाऽदृष्टजनकत्वम् , यथा मांसभक्षणादिदृष्टप्रयोजनपर्यवसितानां पशुहिंसादिक्रियाणां प्रमाणाभावान्नाऽशुभाऽदृष्टजनकत्वम् । न चाऽदृष्टफलोद्देशने लोकप्रवृत्तिरेवाऽदृष्टे प्रमाणम् , दृष्टफलोद्देशेनैव बहूना प्रवृत्तः तदसंख्येयभागस्याप्यदृष्टफलोद्देशेनाऽप्रवर्तमानत्वादिति चेत? न, दृष्टफलोद्देशेन बहूनां प्रवृत्तेरेवाऽनन्तसंसारिजीवान्यथानुपपत्तेरदृष्टसिद्धयाऽऽवश्यकत्वात् ।। दृष्टफलमुद्दिश्य कृष्यादिप्रवृत्तानामपि पापलक्षणमदृष्टमनभिलषितं बद्ध्वा. ऽनन्तसंसारपरिभ्रमणादनन्तावस्थानोपपत्तेः। अदृष्टफलोद्देश्य
कदानादिक्रियाप्रवृत्तानां धर्मरूपमदृष्टमासाद्य स्वल्पानामेव क्रमेण मुक्तेः।
_ 'कृष्याद्यर्थप्रवृत्तानामभिलषिताऽशुभाऽदृष्टस्य लाभः कुत ?' इति चेत् ? अविकलकारणस्य फलजनने आशंसाया