________________
[ १२१
अतिरिक्तशक्तिवादः ]
न च भवतामपि शक्तिनाशे उत्तेजकाऽभावविशिष्टमण्यादीनां तावत्कार्यकारणभावकल्पना गोरव तौल्यमेव, अधिकं च नानाशक्तितत्कार्यकारणभावादिकल्पनागौरवमिति वाच्यम्, अस्माकं विलक्षणशक्ति मच्त्वेनानुगतीकृतोत्तेजकानां प्रतिबन्धकशक्तिनाशकत्वमेकं कल्पनीयमपरं च दाहशक्तिनाशत्वावच्छिन्ने विलक्षणशक्तिमत्वेन मण्यादीनां कारणत्वम्, अन्यच्च दाहशक्तौ तदनुकूलशक्तिमत्वेन वनेरेव भवतां तूक्तरीत्या - ऽनन्तकार्यकारणभावाः कल्पनीया इति लेशतोपि साम्याभावात् । नानाशक्तिनाशोत्पादादिकल्पनागौरवस्य फलमुखत्वेनादोषत्वात् ।
ननु भवतां प्रतिबन्धकदशायां कृशानौ दाहशक्त्यनुकूलशक्तिरस्ति न वा १ नास्ति चेत् ? कुतः पुनरुत्पद्यते शक्त्यंतर सह कृतादग्नेरेवेति चेत् ? तर्हि सापि शक्त्यंरसह - कृतात्तस्मादेवेत्यनवस्था । वस्तुतस्तद्वहूने रेकत्वात्तच्छक्तेः स्वकारणप्रभवत्वे 'प्राक् सा नास्तीति वचनस्यैव व्याघातः । कारणान्तरप्रभवत्वे च किं तया ? कारणान्तराद्दाहशक्त्युत्पत्तेरेव वक्तु ं युक्तत्वात् । अथाऽस्ति तदा तदानीमपि दाहोत्पादिकां शक्ति सम्पादयेत् ततोऽपि दाहः स्यादेवेति चेत् १ अत्री. च्यते प्रतिबन्धकावस्थायामप्यस्त्येव
दाहशक्तिसम्पादकं
शक्त्यंतरं, तदुत्पन्नोत्पन्नदाहशक्तेः प्रतिबन्धकेन च नाशाच्च
-
,