________________
परीक्षामुखसूत्रसूची।
मंगलाचरण । प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोर्लक्ष्म सिद्धमप्लं लघीयसः॥१॥
प्रथम समुद्देश.
सूत्र.
१ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्. २ हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत्. ३ तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत्. ४ अनिश्चितोऽपूर्वार्थः. ५ दृष्टोऽपि समारोपात्ताक ६ स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः ७ अर्थस्येव तदुन्मुखतया ८ घटमहमात्मना वेनि. ९ कर्मवत्कर्तृकरणक्रियाप्रतीतेः १० शब्दानुच्चारणेपि स्वस्यानुभवनमर्थवत् ११ कोवा तत्प्रतिभासनमर्थमध्यक्षमिच्छंस्तदेव नेच्छेत् १२ प्रदीपवत् १३ तत्प्रामाण्यं स्वतः परतश्च
द्वितीयसमुद्देश. १ तद्वेधा २ प्रत्यक्षेतरभेदात् ३ विशदं प्रत्यक्षम् ४ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् ५ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ६ नालोको कारणं परिच्छेद्यत्वात्तमोवत् ७ तदन्वयव्यतिरेकानुविधानाभावाच केशोण्डुकज्ञानवनकंचरज्ञानवच्च