SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ( ६८ ) उद्याक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ॥१॥ पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः ॥ एतस्मात् पतितैःप्रवादकुसुमैः षड्दर्शनारामभूभूयः सौरभमुद्रमत्यभिमतैरध्यात्मवार्तालवैः॥२॥ चित्रोत्सर्गशुभापवादरचनासानुश्रियालङ्कृतः, श्रद्धानन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः ।। भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा, तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो मन्दरः॥३॥ स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति॥ यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रवि नागमो नन्दतात् ॥४॥ अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां, तापव्यापविनाशिभिर्वितनुते लब्धोदयो यः सदा॥ तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः, सोऽयं श्रीजिनशासनामृतरुचिः कस्यैति नो रुच्यताम् बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां सङ्ग्रहात्, साडयानां तत एव नैगमनयाद् योगश्च वैशेषिकः॥
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy