SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ( ६६ ) पपत्तेः, ध्वनेरपि पौरुषेयतयाऽक्षररूपतया तुल्ययोगक्षेमत्वात् , अन्यथा बाह्यमतप्रवेशाच्च, इत्यन्यत्र विस्तरः। यदप्युक्तम्-'न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावरणत्वप्रसिद्धिः' इति, तदपि न क्षोदक्षमम् , कुड्यादीनामेव स्वातन्त्र्येणावरणत्वासिद्धेः, तद्व्यवहितानामप्यर्थानां सत्यस्वप्रज्ञानेन स्वमदशायां जाग्रद्दशायां च शब्दलिङ्गा-ऽक्षव्यापाराभावेऽपि 'श्वो भ्राता मे आगन्ता' इत्याद्याकारेण प्रातिभेन च ग्रहणात् , सकलार्थग्रहणस्वभावे ज्ञाने प्रतिबिम्ब स्वभाव आदर्श मलस्येव रागादीनामेवावरणत्वौचि. त्यात् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः? इति चेत्, सम्यग्दर्शन-वैराग्यादीनां परमप्रकर्षण, 'यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य परमप्रकर्षे तदत्यन्तं क्षीयते, यथोष्णस्पर्शस्य परमप्रकर्षे शीतस्पर्श'इति नियमाद् । इति । अधिकं स्याद्वादकल्पलतादिकेषु विलोकनीयम् ॥ ____ इत्येवं सिद्धं सर्वैकान्तवादिनां शासनं न श्रेयोमार्गःप्रामाण्याभावात् ।। तस्मादनेकान्तशास्त्रमेव विशिष्यते ॥ तथा चोक्तम् पद्यसन्दर्भेण पूज्यैः ॥ नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते ॥ तद् दृष्टयैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥१॥ इमां समक्ष प्रतिपक्षसाक्षिणा मुदारघोषामवघोषणां ब्रुवे ॥
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy