SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ( ६० ) पुरुषधर्मान तिङ्घनात्तद्वाक्येष्वनाश्वास " इत्याहुः, तन्महामोहविजृम्भितमेव, आन्तेः रागद्वेषमोहदोषजन्यत्वेन पुरुषधर्मस्वाभावात् । तथा चोक्तम् ॥ " वीतरागोऽनृतं नैव, ब्रूयात्तद्धेत्वभावतः ॥ यस्तद्वाक्येष्वनाश्वास-स्तन्महामोहजृम्भितम् ॥ १ ॥ इति एवं वेदान्तादिशास्त्राणामपि दृष्टेष्टार्थ विरुद्ध प्रतिपादकत्वेन तत्कर्तुर्वीतरागत्वाभावात्तस्यापि प्रामाण्याभावात् । तच्चे किञ्चित्प्रदर्श्यते । तथाहि वेदान्तशास्त्रमपि न श्रेयोमार्गः, प्रत्यक्षादिप्रमाणप्रसिद्धविरुद्धार्थप्रतिपादकत्वात् । किञ्च तेषां दृष्टिसृष्टिवादोऽपि न शून्यवादाद्विशिष्यते । तथा च सुष्ठुपहसितमेतत् — " प्रत्यक्षादिप्रसिद्धार्थ - विरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि, बौद्धः किमपराध्यते ॥ १ ॥ " । अपि च अविद्यायामेव मानाभावाद् विशीर्यते सर्व तन्मूलं वेदान्तिमतम् । न च ' न जानामि' इत्यनुगतः प्रत्ययस्तत्र मानम्, 'अहम् - अहम्' इत्यनुगतमत्याऽहन्त्वस्याप्यनुगतस्य सिद्ध्यापत्तेः । न च ' न जानामि ' इत्यत्रानुगतविषयानुपपत्तिरप्यस्मान् प्रति सिद्धा, सर्वात्मना स्वरूपज्ञानाभावस्य सर्वत्रानुगतत्वात्, सर्वात्मना स्वरूपज्ञानस्यानुवृत्तिव्यावृत्तिपर्यायद्वारा सर्वज्ञान नियतत्वाद्, विना सर्वज्ञं कुत्राप्यर्थे तदनुपपत्तेः । तदयमाचाराङ्गे परस्परसमनियमाभिप्रायः
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy