SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ( ५३ ) गणो २ राया ३ गाहावई ४ सरीरं ५” इत्याद्यालापकवृत्तौराज्ञो निश्रामाश्रित्य "राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्" इत्युक्तमस्तीति परमकरुणापरीतचेतसः परमधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्त्युपपनत्वात् , विस्तरस्त्वस्य जिनभवनपञ्चाशकसूत्रवृत्त्योर्यतनाद्वारे व्यक्त्या दर्शितोऽस्तीति तत एवावसेयो ग्रन्थगौरवमयादप्रस्तुतत्वादत्र न लिख्यत इति ॥ ___ एतेन “राज्यं हि नरकान्तं स्याद् , यदि राजा न धार्मिकः॥" इत्युक्तिरपि दृढबद्धमूला न कम्पते ॥ किश्च-यत्र तृतीयारकप्रान्ते च राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः, पञ्चमारकप्रान्ते च___ सुअसूरि संघधम्मो, पुव्वण्हे छिजिही अगणि सायं ॥निवविमलवाहणो सुमुह, मन्तिनयधम्म मज्झण्हे ॥ १॥ इति वचनात् , धर्मस्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेति सर्व सुस्थम् ।। इत्यलं विस्तरेणेति । श्रीहीरविजयसूरिप्रणीतजम्बूद्वीपप्रज्ञप्तिवृत्तावपि-" श्रीऋषभस्य सकललोकव्यवहारप्रवर्त्तनं प्रजानां हितार्थमेव, अत एव जिनपूजादिलक्षणायाः समानाया अपि क्रियाया जिनभक्ति१ श्रुतसूरिसंघधर्मा पूर्वाण्हे छेत्स्यन्ति सायमग्निः । नृपो विमलवाहनः सुमुखो मन्त्री नयधर्मश्च मध्याह्ने ।
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy