________________
( ५० ) किश्च कोऽयमावेशः, तदवच्छिन्नप्रयत्न एवेति चेत्, न, तदजन्यस्य प्रयत्नस्य तदनवच्छिन्नत्वात् । अथैवम्भूतावेशानुपपत्तिः तत्र हि भूतात्मन्येव चैत्राद्यवच्छेदेन प्रवृत्तिरङ्गीक्रियते, अन्यथा मृतशरीरे तदावेशतापत्तेरिति चेत् , इयमपि तवैवानुपपत्तिः, न तु अस्माकं स्याद्वादिनां, तत्र सङ्कोचविकासस्वभावभूतात्मप्रदेशानुप्रवेशसद्भावात् । तव त्ववच्छेदकतया चैत्रप्रयत्नं प्रति चैत्रशरीरत्वेनावश्यहेतुता वक्तव्या, अन्यथा मैत्रशरीरावच्छेदेन चैत्रप्रवृत्त्यापत्तेः, पाण्यादिचालकप्रयत्नसत्त्व एव पुनस्तदापत्तिवारणायावच्छेदकतया तत्प्रयत्ने तया तद्भावस्य हेतोरापादकस्य सत्त्वात्, तच्छरीरत्वेन तत्तत्प्रवृत्त्यादिहेतुत्वे गौरवात् , कायव्यूहस्थलेऽपि योगजादृष्टोपगृहीतत्वसम्बन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वात् । __ अपि च यथाकथञ्चिद् भूतावेशन्यायेन तच्छरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेत् ,इति व्यर्थमेवेशस्य वेदादिप्रणयनम्। कर्मवदस्यापि दृष्टेष्टानतिलङ्घनेनैव प्रवर्तकत्वात् नानुपपत्तिरिति चेत्, तर्हि-परप्रवृत्तये वाक्यमुपदिशन् स्वेष्टसाधनताज्ञानादिकमपि कथमतिपतेत् ?, कथं वा चेष्टात्वावच्छिन्ने विलक्षणप्रयत्नत्वेन हेतुत्वात् तदवच्छिन्नस्य च विजातीयमनःसंयोगादिजन्यत्वात् , तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा ?, विलक्षणचेष्टायां विलक्षणप्रयत्नस्य हेतुत्वात् ॥
अत्रेश्वरीयप्रयत्न एव हेतुरिति चेत् । तर्हि तस्य सर्वत्रा