SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ( ४७ ) योगजन्यत्वं न बाधकमिति चेत् , न, ईश्वरसम्बन्धस्य सर्वत्राविशेषेण 'इदमेवेश्वरशरीरम्' इति नियमायोगात् , चेष्टाया अपि ज्ञानवदेकस्या नित्यायाश्च स्वीकारौचित्यात् , उक्तश्रुतेस्त्वदभिमतेश्वरज्ञानापक्षपातित्वाच्च । अन्यथा आनन्दोऽपि तत्र सिध्येत् ज्ञानाऽऽनन्दभेदश्चेति दिग् ॥ एवं आयोजनादपि नेश्वरसिद्धिः, ईश्वराधिष्ठानस्य सर्वदा सत्त्वेऽप्यदृष्टविलम्बादेवाऽऽद्याणुक्रियाविलम्बात् , तत्र तद्धेतुत्वावश्यकत्वात् , दृष्टकारणसव एवादृष्टविलम्बेन कार्याविलम्बात् , अदृष्टस्य दृष्टाघातकत्वात् । चेष्टात्वस्याऽनुगतत्वेनोपाधित्वाच । तदवच्छिन्न एव हि जीवनयत्नव्यावृत्तेन प्रवृत्तित्वेन गमनत्वादिव्याप्यत्वे तु विलक्षणयत्नत्वेनैव हेतुत्वात्, क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् । “ यद्विशेषयोः" इत्यादिन्याये मानामावस्योक्तत्वादेव ॥ एवं धृतेरपि नेश्वरसिद्धिः, गुरुत्ववस्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याम्रफलादावेव व्यभिचारित्वात् । प्रतिबन्धकाभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाभावे तथात्वात् । वेगाप्रयुक्तत्वस्यापि विशेषणत्वे मन्त्रविशेषप्रयुक्तगोलकपतनाभावे तथात्वात् । अदृष्टाप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात् , तदुक्तम् ॥ . "निरालम्बा निराधारा, विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र, धर्मादन्यदू न कारणम् ॥१॥"
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy