________________
( ४५ ) "पिनष्टीयं पिष्टं भवनियमसिद्धिव्यवसितिः । स्वभावाद् भूतानां मितसमयदेशस्थितिरिति ॥ .
अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां। वृथा ययापारो जगति जगदीशस्य कथितः ? ॥१॥
अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि निजव्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् ।। ____ अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां। वृथा यद् व्यापारो जगति जगदीशस्य गदितः॥२॥
प्रवाहेणानादिः स च परिविशुद्धोऽपि गदितो। मलात्यन्ताभावान्ननु भवति शुद्धिगंगनवत् ॥
तमेकं मन्यन्तां सदृशगतिभेदाग्रहवशानिराशानां सर्वं सफलमफलं कुग्रहजुषाम् ॥ ३ ।। __यदेवैतद्रूपं प्रथममथ सालम्बनपदे । तदेव ध्यानस्थं घटयति निरालम्बनसुखम् ॥
रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं । कथं लीलारूपं स्फुटयतु निराकारपदवीम् ? ॥४॥ .. अता लीलैशीत्यपि कपिकुलाधीतचपल- . स्वभावाद् भ्रान्तत्वं विदधति परीक्षां हि सुधियः। . न यद् ध्यानस्याङ्गं तदिह भगवद्र्पमपि किं ॥ जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते !! ॥५॥