________________
(४२ ) पक्षण प्रतिष्ठादिना स्वाभेदस्वीयत्वादिज्ञानं तदाहितसंस्काररूपं ब्रह्मादौ स्वीकृतम् , न च ब्रह्मादीनामीश्वरभेदः, भगवद्गीताविरोधात् । एवं वैषयिकसुख-दुःखादिश्रवणाद् धर्माऽधर्मावपि तत्रेश्वरेऽङ्गीकर्तव्यौ । न च विरोधः, ब्रह्मादिशरीरावच्छेदेनानित्यज्ञानादिसत्वेऽप्यनवच्छिन्नज्ञानाविरोधात् । अत एवाऽन्ये तु " स तपोऽतप्यत" इति श्रुतेः अणिमादिप्रतिपादकश्रुतेश्च धर्माऽधर्मावनित्यज्ञानादिकमीश्वरे स्वीकुर्वन्ति । एतन्मते च बाधादिप्रतिबन्धकतायामवच्छिन्नसमवेतत्वेन चैत्रवत्त्वादिलक्षणचैत्रीयत्वादेरवश्यं निवेश्यत्वान्नातिरिक्तनित्यज्ञानाश्रयसिद्धिः । किञ्च, प्रवृत्तिविशेषे इच्छान्वय-व्यतिरेकवत् , प्रवृत्तिविशेषे द्वेषाऽन्वय-व्यतिरेकावपि दृष्टौ, दुःखद्वेषण तत्साधनद्वेषे तन्नाशानुकूलप्रवृत्तेः कण्टकादौ दर्शनात् । न च जिहासयैव द्वेषाऽन्यथासिद्धिः, “तद्धेतोरेव तदस्तु किं तेन" इति न्यायाद्, द्वेषस्यैव तत्कारणत्वात् ,अन्यथा द्वेषपदार्थ एव न स्यात् , न च रागाभाव एव द्वेषपदार्थोऽस्तु, द्वेष्मीत्यनुभवे क्वचिदनिष्टसाधनज्ञानस्य क्वचिच्चानिष्टज्ञानस्यैव द्वेषपदेन त. थाऽभिलापात् । एवं च कार्यसामान्ये द्वेषस्यापि हेतुत्वसिद्धौ नित्यद्वेषोऽपीश्वरे सिध्येत् । ननु द्वेषवत्वे च तस्य संसारित्वप्रसङ्ग इति चेत् , चिकीर्षावत्वेऽपि किं न सः । ___ अथ द्वेष-चिकीर्षयोस्तत्र समानविषयत्वे करणाकरणप्रसङ्गः, भिन्नविषयत्वे च तत्कायं न कुर्यादेवेति बाधकाद् द्वेषकल्पना त्यज्यत इति चेत्, न, फलमुखगौरवस्यादृषकत्वात् ,