________________
( ३७ ) हि परप्रेरको दृष्टः स प्रयोजनवान् एव दृष्टः। "प्रयोजनं विना मन्दोऽपि न प्रवर्त्तते " इति न्यायोऽपि तस्य परप्रेरकत्वे बाधकः। तथा चोक्तम् । “न च प्रयोजनं किश्चित्स्वातन्त्र्यान्न पराज्ञया॥" ननु क्रीड़ार्थमेव तस्य प्रेरकत्वमिति चेत्, न, रागद्वेषाभ्यां वैराग्यव्याहतेः, तथा चोक्तम्-"क्रीडया चेत् प्रवर्तेत, रागवान्स्यात् कुमारवत् ।।" ननु कारुण्यादेव भगवतः प्रवृत्तिरिति चेत् , तदा सुखरूपमेव प्राणिवर्ग सृजेत् , न च निरपेक्षस्य कर्तृत्वेऽयं दोष इति वाच्यं, स्वतन्त्रताव्याघातप्रसङ्गात् , “कर्मापेक्षः स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत्" इति॥ ननु कर्मणो जडत्वेन कथं तस्य प्रवर्तकत्वमिति चेत्, तत्स्वभावत्वात् । अथ महेशस्यापि तत्स्वभावत्वे को दोष इति चेत्, कर्मणो जगजननस्वभावत्वे बाधकाभावात् । महेशस्य तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् , वीतरागत्वव्याहतेः ।
किश्च ज्ञानादीनामनादित्वकल्पने प्रमाणाभावाद्धाधकसद्भावाच्च कल्पनाया दृष्टानुसारित्वात् ,अन्यथापि लाघवानुसरणे सर्वव्यवहारलोपप्रसङ्गात् । एतेन तत्साधकागमोऽपि प्रमाणविधुर एव, तस्यैवासिद्धत्वे तदुक्तत्वेनागमस्य प्रामाण्याभावात् । एवं कारिकोक्तान्यनुमानान्यपि न तत्साधकानि,तथाहि-कार्येण तत्साधने आद्यानुमाने नानुकूलस्तर्कः, तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति तत्तत्पुरुषीयपटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेन हेतुत्वावश्यकत्वात् , प्रत्यक्षत्वेन कार्यसामान्यहेतुत्वे मानाभावात् , चिकीर्षाया अपि प्रवृत्तावेव हेतुत्वात् , कृतेर