SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) इत्यादौ विधिवाक्यानुमानानुपपत्तेश्चेष्टसाधनताया:प्रागेव बोधनात् , 'कुर्याः कुर्याम्' इत्यादौ वक्तृसङ्कल्पस्यैव बोधात् , आज्ञा-ऽध्येषणा-ऽनुज्ञा-सम्प्रश्न-प्रार्थना-ऽऽशंसादिष्विच्छाशक्तस्वस्यैव कल्पनाच,उल्लङ्घने क्रोधादिभयजननेच्छा आज्ञा,अध्येषणीये प्रयोक्तुरनुग्रहयोतिका अध्येषणा, निषेधाभावव्यञ्जिका अनुज्ञा, प्रयोजनादिजिज्ञासा सम्प्रश्नः, लाभेच्छा प्रार्थना, शु. भेच्छाऽऽशंसा ॥ निषेधानुपपत्तेच, तथाहि, 'न कलशं भक्षयेद्' इत्यत्रेष्टसाधनत्वरूपविध्यर्थे कथं नअर्थान्वयः इष्टसाधनत्वाभावस्य तत्र बाधात् । न च बलवदनिष्टाननुबन्धित्वमपि तदर्थः। श्येनेन अभिचरन् यजेद्' इत्यादौ श्येनस्य शत्रुमरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनतया बलवदनिष्टानुबन्धित्वाभावस्य बाधात् । न च श्येनस्य नरकसाधनत्वमसिद्धमिति वाच्यं, 'मा हिंस्यात् सर्वभूतानि' इति निषेधविधिना हिंसासामान्यस्य निषिद्धत्वप्रतिपादनेन निषिद्धाचरणस्य नरकसाधनत्वस्यावश्यं स्वीकार्यत्वात् । न च 'अग्निपोमीयं पशुमालभेत' इति विधिचोदिताग्निषोमीययागस्यापि पशुहिंसासाधनत्वेन तस्यापि नरकसाधनत्वापत्त्या 'मा हिंस्यादिति' सामान्यशास्त्रस्य विशेषविधिचोदितयागीयहिंसातिरिक्तहिंसासामान्यनिषेधपरत्वावश्यकतया प्रकृते शत्रमरणस्यापि विधिचोदितयागीयहिंसात्वेन सामान्यशास्त्राप्रवृत्त्या श्येनयागस्यापि न नरकसाधनत्वमिति वाच्यम् । तत्कर्तुः प्रायश्चित्तविधानात् । अन्यथा "अभिचारमहीनं च, त्रिभिः कृच्छय॑पोहति"इत्याभि
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy