________________
( ३० ) कोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वात् अस्मदादिशरीरकर्मवत् इत्यनुमानात् । न च विपक्षे बाधकाभाव इति वाच्यं, परमाणोरेव तादृशप्रयत्नववे जडताहानिप्रसङ्गात् । इदमत्र हृदयम्-तादृश-प्रयत्नवत्वस्यैव स्वातन्त्र्यपदार्थस्वात् , तस्य च चेतनाधिष्ठानाविनाभावादिति । न चादृष्टमेव तत्र हेतुः, अदृष्टस्य दृष्टहेत्वपेक्षत्वेनैव हेतुत्वात् , अन्यथा दृष्टहेतुमात्रोच्छेदापत्तिः स्यात् , न च इष्टापत्तिरिति वाच्यं, व्यणुकादीनामप्यदृष्टादेवोत्पत्तेः कर्मण एवानुत्पत्तिप्रसङ्गात् , “खातव्ये जडताहानिः, नादृएं दृष्टघातकम ॥ हेत्वभावे फलाभावो, विशेषस्तु विशेषवान् ।" इति वचनात् । तस्मात्परमाण्वादयो हि चेतनायोजिता एव प्रवर्तन्ते अचेतनत्वाद् वास्यादिवत् । अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः। अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् । ननु क्रियासामान्यविश्रान्तः क्रियाविशेषविश्रान्तोवाऽयं नियमो,यदि क्रियासामान्यगोचरस्तदा तस्य चेतनाधिष्ठितत्वे मानाभावात् , यदि च क्रियाविशेषे विश्रान्तः, तदा सा क्रिया चेष्टैव चेष्टा हि यदि चेतनाधिष्ठानमपेक्षते इति चेत् केयं नाम चेष्टा ? साच यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया तदा तन्न तत्रैव तस्योपाधित्वाभावात् परमाणुक्रियायां प्रयत्नवदात्मसंयोगासमवायिकारणकत्वस्यैव साध्यत्वादिति तच्च नोपाधिः साधनव्यापकत्वेन साधनाव्यापकत्वघटितस्योपाधिलक्षणस्यानन्वयादिति । अथ हिताहितप्राप्तिपरिहारफलिकैव सा इति चेत्,न, तस्या विषभक्षणाहिलङ्घ