________________
. ( २२ ) 'च पूर्वोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते स्वरूपभागासिद्ध्यादेस्तत्रापि सुलभत्वात् ।। ____स्यादेतत् , मोक्षमार्गप्रणीतिरनादिसिद्धसर्वज्ञमन्तरेण नो. पपद्यते सोपायसिद्धस्य सर्वज्ञस्यावस्थानासम्भवेन मोक्षमार्गप्र. णीतेरसम्भवात् । अवस्थाने वा तस्य समुत्पन्नतत्वज्ञानस्यापि साक्षान्न तत्त्वज्ञानं मोक्षस्य कारणं तद्भावेऽप्यभावात् तत्त्वज्ञानात्पूर्व मोक्षमार्गस्य प्रणयने तदुपदेशस्य प्रामाण्यायोगादज्ञवचनत्वाद् , रथ्यापुरुषवचनवत् । तदन्यस्मिन्नविश्वसा-न्न विधान्तरसम्भवः' इति वचनात् ।। न च समुत्पन्नसाक्षात्तत्त्वज्ञानस्यापि परमवैराग्योत्पत्तेः पूर्वमवस्थानसम्भवान्मोक्षमार्गप्रणीतो का क्षतिरिति वाच्यम् । साक्षात्तत्वज्ञानस्यैव परमवैराग्यस्वभावत्वात् । इदमपि स्वमताग्रहग्रहिलचेष्टितमेव, तथा हि, सोऽशरीरो वा स्यात् सशरीरो वा, गत्यन्तराभावात् "परस्परविरोधे हि, न प्रकारान्तरस्थितिः" इति वचनात् , तत्र न तावत्प्रथमपक्षः सम्भवति, तदन्यमुक्तवद्वाक्प्रवृत्तेरयोगात् “ध. धिमौं विना नाङ्गं, विनाङ्गेन मुखं कुतः ।। मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥" नापि सशरीरः, धर्माधर्मयोगस्यानभ्युपगमात् " धर्माधौं विना नाङ्गम्" इति वचनात् । तन्नानादिसिद्धसर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षा क्षमते । ननु सशरीराशरीरत्वयोर्मोक्षमार्गप्रणीतिं प्रत्यनङ्गत्वात् ज्ञानेच्छाप्रयत्ननिमित्तकत्वेन तस्याः कायादिकार्योत्पादनवत् , तन्मात्रनिबन्धनत्वोपलब्धेः कार्योत्पादनस्य । तथा हि,