SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( १२ ) तेषां तस्मिन् समवायाभावाद्, ये हि यत्र समवयन्ति परिणामास्तैरेव तस्य परिणामित्वमिष्यते, परमाणोरपि स्वारम्भका - वयवाभावेऽपि सप्रदेशत्वप्रसङ्गो नानिष्टापत्तये तार्किकाणाम् । परमाण्वन्तरसंयोग निबन्धनस्य सप्रदेशत्वस्य परमाणाविष्ट - त्वात् न चोपचरितप्रदेशप्रतिज्ञा आत्मादिषु विरुद्ध्यत इति वाच्यम्, स्वारम्भकावयवलक्षणप्रदेशानां तत्राप्रतिज्ञानेनोपचरितत्वाभावात् । मूर्त्तद्रव्यसंयोगनिमित्तानां तु प्रदेशानां पारमार्थिकत्वात्, अन्यथा सर्वमूर्त्तद्रव्यसंयोगानां युगपद्धाविनामुपचरितत्वप्रसङ्गाद् विभुद्रव्याणां सर्वगतत्वमप्युपचरितं स्यात् । परमाणोश्च परमाण्वान्तरसंयोगस्यापारमार्थिकत्वे द्वणुरूप कार्यद्रव्यस्याप्यपारमार्थिकत्वापत्तिः । कारणस्योपचरितत्वे कार्यस्याननुपचरितत्वादर्शनादिति केचित् । तदपि स्याद्वादमतस्य घुणाक्षरन्यायेनानुसरणं न महेशस्य कारणत्वं समर्थयितुमलम् । तदन्वयतिरेकानुविधानासम्भवस्य प्रतिपादितत्वात् । अन्यथा तन्वादिकार्योत्पादे क्षेत्रज्ञानामपि कारणत्वापत्तिः स्यादविशेषात् । अथेश्वरस्य सकलज्ञत्वेन विश्वकारकपरिज्ञानयोगात्तत्प्रयोक्तृत्वलक्षणे समस्तकार्यनिमित्तकारणत्वे न कापि क्षतिः, न पुनः क्षेत्रज्ञानां समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तत्परिज्ञानाभावादिति, तदपि न समीचीनं, सर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वस्यासिद्धेः, योग्यन्तरवत् । न हि योग्यन्तराणां सकलज्ञत्वेऽपि समस्तकारकप्रयोक्तृत्वमिष्यते ।
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy