________________
तिरेकासिद्धेर्देशान्तरे सर्वदा तदनुपपत्तेः सर्वदा कार्यानुत्पादप्रसङ्गाच्च, अन्यथा तस्या अनित्यत्वापत्तेः, नन्वनित्यैव साऽस्तु को दोष इति चेत् , सा तर्हि महेशस्येच्छोत्पद्यमानाsन्येच्छापूर्विका यदीष्यते तदानवस्था परापरसिसृक्षोत्पत्तावेव महेशस्योपक्षीणशक्तित्वात् प्रस्तुततन्वादीनामनुदय एव स्यात् । यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्येच्छोत्पद्यते सापि अपरेच्छापूर्विका एवं सापि अन्यापरपूर्विका इत्यनादिसिसृक्षासन्तति नवस्थादोषमास्कन्दति, सर्वत्र कार्यकारणलक्षणसन्तानस्यानादिसिद्धत्वात् बीजाङ्कुरादिसन्ततिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्योत्पादो नोपपद्येत यत्र यत्कार्योत्पत्यर्थं महेश्वरेच्छोत्पत्तिः तत्र तस्यैव कार्यस्योत्पत्तिः स्यात् । न च यावत्सु देशेषु यावन्ति कार्याणि सम्भूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य युगपदुपजायन्त इति वक्तुं शक्यम् , युगपदनेकेच्छोत्पत्तिविरोधादस्मदादिवत् । यदि पुनरेकैवेश्वरेच्छा नानादेशेषु अनेककार्योत्पत्त्यर्थं प्रजायत इतीष्यते तदा क्रमतोऽनेककार्योत्पत्तिर्न स्यात् विरोधात् । न च यत्र यदा यथा यत्कार्यमुत्पित्सु तत्र तदा तथा तत्कार्योत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदेशे च क्रमेण युगपच्च तादृशी अन्यादृशी च तन्वादिकार्योत्पत्तिन विरुध्यत इति वाच्यं, कचिदेकत्र प्रदेशे समुत्पन्नाया इच्छाया दविष्ठदेशेषु विभिन्नषु नानाविधेषु नानाकार्यजनकत्वविरोधात् । तस्याः सर्वगतत्वाभ्युपगमे