________________
( ३२ ) ॥ अथ साङ्ख्यदर्शनम् ॥ पञ्चविंशतितत्त्वानि कपिलेन महात्मना ।
मूत्रितानि च तान्येव पाताञ्जलमतान्यपि ॥१॥ . निरीश्वर-सेश्वरभेदेन साङ्घयो द्विविधः, तत्र कपिलमुनिप्रणीतं निरीश्वरसाङ्ख्यदर्शनं तच्चसाङ्ख्यदर्शनशब्देनोच्यते, पतञ्जलिमुनिप्रणीतं सेश्वरसाङ्ख्यदर्शनम्, तत्पातञ्जलदर्शनमित्यभिधीयते, पञ्चविंशतितत्त्वोपगम उभयोरपि समानः, केवलमेकेनेश्वरो नाभ्युपेयते अपरेण सोऽभ्युपेयत इति । पद्यं स्पष्टम् ॥ मूलप्रकृतिः प्रकृति-विकृतयोऽथ च सप्त ॥
षोडशकश्च विकारः पुरुषश्च ततो भिन्नः ॥२॥ मूलप्रकृतिः सर्वेषां विकृत्यात्मकतत्त्वानां मूलकारणम्, प्रधाननाम्नाऽभिधीयते, प्रकृतिश्च सत्त्व-रज-स्तम्सां त्रयाणां गुणानां साम्यावस्था, तत्र सत्त्वं लधु प्रकाशकञ्च प्रसादकार्यानुमेयम्, उपष्टम्भकं चलञ्च तोषकार्यानुमेयम्, तोषश्वानन्दः, तमो गुरुवरणकं च दैन्यदुःखकार्यानुमेयम्, दैन्यं च वदनविच्छायतानेत्रसंकोचादिव्यङ्ग्यम्, दुःखञ्च आध्यात्मिकाधिदेवताधिभौतिकभेदेन त्रिविधम्, तत्राध्यात्मिकं शारीरं मानसं च, वात-पित्तश्लेष्मणां वैषम्यनिमित्तं शरीरम्, कामक्रोध-लोभ-मोहेर्ष्याविषयादर्शननिबन्धनं मानसम्, आधिदैवतं यक्ष-राक्षसग्रहाद्यावेशनिमित्तकम्, मानुषपशुमृगपक्षिसरिसृपस्थावरनिमित्तकमाधिभौतिकमिति, उक्तञ्च-'सत्त्वं' लघुप्रकाशकमिष्टमुपष्टम्भकं चलश्चरजः ।