________________
( १०० ) घटत्वादिकं च कार्यतावच्छेदकतया सिद्धयति, गुणत्वं चतुर्विंशतिगुणेषु गुणपदप्रवृत्तिनिमित्ततया सिद्धयतीति, व्यक्त्यभेद-तुल्यस्वसङ्करानवस्थारूपहान्यसम्बन्धाश्च जातिबाधकाः, तत्र एकव्यक्तिमात्रवृत्तित्वलक्षणव्यक्तयभेदादाकाशत्वकालत्वदिकत्वादीनि न सामान्यानि, स्वभिन्नजातिसमनियतत्वं जातिभेदस्य बाधकं तेन यदेव घटत्वं तदेव कलशत्वकुम्भत्वादि, परस्परात्यन्ताभावसामानाधिकरण्येसति सामानाधिकरण्यं साङ्कर्य, तब जातित्वबाधक, तेन पृथिवीत्वादिना साङ्कर्यादिन्द्रियत्वादिकं न जातिः, भूतत्व. मूर्तत्वयोरेकस्य जातित्वसाधकप्रमाणाभावे साङ्कर्यादुभयं न जातिः यदि च कर्मजनकतावच्छेदकतया मूर्त्तत्वंजातिरुपेयते तदा तत् साङ्कर्याद् भूतत्वं न जातिः, घटादिष्वनुगतप्रतीत्यादिबलाद् घटत्वादिजातीनां सिद्धौ घटत्वादिषु जाति तिरित्यनुगतप्रतीत्या जातित्वस्य सकलजातिगतस्य सामान्यस्योपगमे तत् साधारण्येन जातिरित्यनुगतप्रतीति बलादन्यस्य सामान्यत्वस्य जातितयोपगमे तत्राप्युक्त दिशाजात्यन्तरस्य सामान्यत्वस्य प्रसक्तयानवस्थानं स्यादतः सामान्यत्वं न जातिः, नित्यद्रव्याणां परमाण्वादीनां व्यावर्तकतया स्वतो व्यावृत्तानामनन्तानां विशेषाणां सिद्धौ तेषु विशेषत्वजातरुपगमे जातिमतां किञ्चिद्रूपेणैवव्यावृत्तिरिति स्वतो. व्यावृत्तत्वस्य विशेषासाधारणरूपस्य हानिस्स्यादतो विशेषत्वं न जातिः, समवायसम्बन्धेन वृत्तित्वलक्षणसम्बन्धस्याभावस्वरूपा. सम्बन्धात् समवायाभावो न जाती, तदुक्तम् 'व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थितिः।