________________
( ८६ ) तेनोदाहरणान्तरोपनयान्तरयोः प्रतिज्ञान्तरत्वेन सङ्ग्रहः, यथा शब्दोऽनित्य इत्युक्ते ध्वनौ बाधेन परेण प्रत्युक्ते वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरम्, प्रतिज्ञाहेत्वो विरोधः प्रतिज्ञाविरोधः, यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, अत्र यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः,अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्त द्रव्यमिति । पक्ष प्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न यासः, स्वाभिहितस्य प्रतिषेधे कृते सति तत् परिजिहीर्षया प्रतिज्ञातार्थापलाप- प्रतिज्ञातार्थापलापः प्रतिज्ञासन्न यास इति तत् पर्यवसानम्, यथा शब्दोऽनित्यः ऐन्द्रियकत्वादित्युक्ते सामान्ये व्यभिचारेणपरेण प्रत्युक्तेक एवमाह शब्दोऽनित्य इति ।
परोक्तदूषणोद्दिधीर्षया तत्र व हेतौ पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्टवचनं हेत्वन्तरम्, यथा शब्दोऽनित्यो बाह्येन्द्रियप्रत्यक्षत्वादित्युक्ते सामान्येऽनकान्तिकत्वेन च प्रत्युक्ते सामान्यवत्त्वे सतीति विशेषणम् । प्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बद्धार्थाभिधानमर्थान्तरम् यथा शब्दोऽनित्यः कृतकत्वादित्युक्त्वा शब्दो गुणः स चाकाशस्येत्यादि । अवाचकपदप्रयोगो निरर्थकम् यथा जवगडदशादितुल्यवर्णक्रमनिर्देशः, परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातविज्ञातार्थम्, अस्य अवहिताविकलव्युत्पन्नपरिषत् पतिवादिबोधानुकूलोपस्थित्यजनकवाचकवाक्यप्रयोगोऽविज्ञातार्थमितिपर्यवसितम्, अस्य त्रेधा सम्भवः असाधारणतन्त्रमात्रप्रसिद्धम् अतिप्रसक्तयोगमनपेक्षित रूढिकम् श्लिष्टमिति, तत्राद्यं बौद्धप्रसिद्ध