________________
३८८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् कारित्वस्यैव न्याय्यत्वाद् विज्ञातस्य चानेककारणकृतोपकाराध्यासितस्य संहतत्वं कल्पितमविरुद्धमेवेति न किञ्चिद् विचार्यमाणं साङ्ख्यदर्शने चारिमाणमश्चतीति दिक् ॥
दर्शितेयं यथाशास्त्र, व्यवहारनयस्य दिक् । मायसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥१॥
क्षया परत्वस्य विज्ञानेऽभावेन परतया विज्ञानस्य ग्रहणासम्भवेन तदर्थत्वस्य साध्यत्वाभावेन न सिद्धसाधनमित्यर्थः। निषेधे हेतुमाह- अपरस्येति-विज्ञानभिन्नस्याऽविकारिणः पुरुषस्योपकार्यत्वासम्भवात् परतयाऽविकार्यात्मनो ग्रहणे तदर्थत्वं न सम्भवत्येवे. त्यर्थः। पूर्वपूर्वचक्षुरादीनामुत्तरोत्तरचक्षुरादिजनकत्वेन सङ्घातरूपचक्षुरादीनां संघोतरूपचक्षुगदिकदम्बोपकारित्वतस्तदर्थत्वस्यैव न्याय्यत्वादित्याह- चक्षुरूपेति-विज्ञानस्यापि कल्पितं सङ्घातत्वमस्ति, न च तस्यात्मस्वरूपस्य स्वव्यतिरिक्तपदार्थत्वमिति न सङ्घातत्वस्य परार्थत्वेन व्याप्तिरित्याह- विज्ञातस्येति । 'विज्ञानस्य' इति त्वत्र युक्तः। साङ्ख्यमतखण्डनमुपसंहरति- इति न किञ्चिद् विचार्यमाणमिति। दर्शितेयमिति- साङ्ख्यसिद्धान्तुहेतुरियं व्यवहारनयस्य दिक् श्रीयशो. विजयवाचकैर्यथाशास्त्रं दर्शितेत्यन्वयः, व्यक्तमदः। द्रव्यार्थोऽशुद्ध इष्टो व्यवहात निपुणो यो नयः सोऽत्र विज्ञ
नव्योक्त्या वाचकायैरनुपमरचनाशालिवाक्यनिरुक्तः। तस्मादुत्थं सुयुक्त्या कपिलसुतमतं संनिरुच्य व्युदस्तं,
बौद्धोक्त्या न्यायदृष्ट्याऽवितजिनमतं वस्तुतोऽर्थात् प्रसिद्धम् ॥१॥ व्याख्यानं तस्य सूरिगुरुवरकृपया मन्दधीरन्यगत्यै,
कृत्वा लावण्यनामा जिनमतनिरतो लब्धवान् यत् सुपुण्यम् । तस्मादेतत् सुपाठयं व्यवहृतिनयधीप्रापकं शिष्यवर्गः, सिद्धान्तकान्तनिष्ठेर्भवतु भवकथा दूरतस्तत् प्रयातु ॥२॥
६
इति व्यवहारनयनिरूपणम्।।