________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३८५
तदपि न सम्यग् यतः क्षीरमपि न स्वातन्त्र्येण वत्सविवृद्धिं चेतस्याधाय प्रवर्तते, किं तर्हि क्काचित्केभ्यः स्वहेतुभ्यः प्रतिनियतेभ्यः समुत्पत्तिमासादयति, तच्च लब्धात्मलाभं वत्सविवृद्धिनिमित्ततामुपयातीत्यचेतनमपि प्रवर्तत इति व्यपदिश्यते, न चैवं प्रधानस्य कादाचित्का प्रवृत्तिर्युक्ता नित्यत्वात्, कादाचित्कसहकारिसमवधानस्याप्यनागन्तुकस्वशाक्तनिमित्तत्वादेकमुक्तौ सर्वमुक्तिप्रसङ्गात्,
साङ्ख्यकल्पितस्याऽयुक्तत्वे हेतुमाह यत शेत- 'न' इत्यस्य 'प्रवर्तते' इत्यनेनान्वयः । आसादयति प्राप्नोति 'क्षीरम्' इत्यनुषज्यते । तच क्षीरं च । लब्धात्मलाभं स्वकारणेभ्यो लब्धोत्पत्तिकम् । इति पतस्मादेव कारणात् 6 न च इत्यस्य 'युक्ता' इत्यनेनान्वयः । एवं पूर्वमसतः क्षीरस्य स्वकारणतो लग्योत्पत्तिकस्य वत्सविवृद्ध्यर्थं यथा कादाचित्की प्रवृत्तिस्तथा । नित्यत्वात् प्रकृतेर्नित्यत्वात् तद्रूपकारणस्य सर्वदा सत्त्वेन कार्यसर्जनलक्षण तत्प्रवर्तनस्यापि सर्वदाभावेन कादाचित्कत्वं न स्यादित्यर्थः । ननु न केवलायाः प्रकृतेः कार्यसर्जनलक्षणा प्रवृत्तिः, किन्तु कादाचित्कसहकारिसमवहिताया एव तस्याः प्रवृत्तिरिति तस्यानित्यत्वेऽपि सहकारिसमवधानस्य कादाचित्कत्वात् कादाचित्की प्रवृत्तिरित्यत आह- कादाचित्केति- आगन्तुककारणनिमित्तं यदि प्रधानस्य सहकारिसमवधानं स्थात् तदा यदैव कारणस्यागन्तुकस्य भावस्तदेव सहकारिसमवधानमिति स्यात्, न चैवम्, किन्तु अनागन्तुका अन्यकारणतोऽलब्धात्मलाभा नित्येति यावत्, या स्वस्य - प्रधानस्य शक्तिस्तन्निमित्तत्वात्-तत्कारणकत्वात् सहकारिसमवधानस्य सदाभावसम्भवेन तद्विशिष्टायाः प्रकृतेरपि सर्वदाभावेन सदैव प्रवृत्तिः स्यादित्यर्थः । किञ्च स्वमोक्षार्थं कमपि व्यापारम कुर्वाणस्यैव पुरुषस्य प्रकृतिव्यापारत एव मोक्षस्याभ्युपगमे मोक्षार्थमव्याप्रियमाणत्वस्य सर्वपुरुषसाधारण्यात् प्रकृतिप्रयत्नात् यथेकस्य पुंसो मुक्तिस्तथाऽन्यस्यापि स्यादित्येकमुक्तौ सर्वमुक्तिः स्यादि