________________
३७८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् दिलिङ्ग चेतनपुरुषसम्बन्धाचेतनावदिव धर्मादिकार्येष्वध्यवसायं करोतीत्यदोष एवायम् , उक्तं च
"पुरुषस्य दर्शनार्थ, कैवल्यार्थ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि, संयोगस्तत्कृतः सर्गः"॥
साङ्ख्यकारिका-२१] - इति चेत् ? न-सर्गस्योभयजत्वे संयोगादिवद् द्विष्ठत्वेन नैमिरिति- पॉश्चरणविकलो न गन्तुं समर्थः, परं चक्षुष्मान गन्तव्यप्रामादिमार्ग पश्यति, अन्धस्तु चक्षुर्विकलो न मार्ग पश्यति, किन्तु दृढचरणो गन्तु समर्थः, तौ चाऽसंयुक्तौ न प्रत्येकमभीष्टप्रामादिकमासादयतः, संयुक्तौ तु तथा गच्छत एवाभीष्टप्रामादिकं परस्परसम्बन्धबलाद, यथा तयोरभीष्टग्रामाद्यवाप्तिस्तथाऽचेतनत्वादन्धकलां महदादिलिङ्गं कर्तृत्वराहित्यात् पङ्गुकल्पः पुरुषः परं चेतनत्वाज्ज्ञातुं समर्थ इति तत्सम्बन्धाच्चेतनावदिव लिङ्गं धर्मादिकार्यमध्यवस्य करोतीति पुरुषाभीष्टमर्थमुपनयतीत्यर्थः । अयम् 'नासो' इत्यादिनाऽनन्तरोऽभिहितो दोषः। ___उक्तमर्थ साङ्ख्यकारिकया संवादयति- उतं चेति-पुरुषस्य दर्शनार्थ प्रकृत्या संयोगः, पुरुषस्य प्रकृत्या सह संयोगे सति पुरुषसंयुक्ता प्रकृतिश्चेतनैव भवतीति द्रष्टुं समर्था, अन्यथा स्वतोऽचेतनरूपा सान द्रष्टुं समर्थति, प्रधानस्य कैवल्यार्थ पुरुषेण सह संयोगः, अन्यथाऽकर्ता पुरुषोऽज्ञानाद्युच्छेदोपायं कर्तुमसमर्थो न केवलो भवेदिति उभयोरपि प्रधान-पुरुषयोरपि, तत्कृतः परस्परसम्बन्धकृतः, सर्गः महदादिसृष्टिः।
प्रतिक्षिपति-नेति । उभयजत्वे प्रधान-पुरुषोभय जन्यत्वे । संयोगादिवदिति- आदिपदाद् विभाग-द्वित्वसंख्या द्विपृथक्त्वावयव्यादीनामुपग्रहः, संयोगादेर्यथोभयजन्यत्वेन द्विष्ठत्वं तथा सर्गस्याप्युभय