________________
अनेकान्त व्यवस्थाप्रकरणम् ]
[ ३७५
"
सनाभ्यङ्गादि, सङ्घातरूपाश्च चक्षुरादय इति स्वभावहेतुः, यश्चासौ परः स आत्मेति सामर्थ्यात् सिद्धम् " इति अत्र 'चैतन्यं पुरुषस्य स्वरूपम्' इत्यादि वदता चैतन्यं नित्यैकरूपं प्रतिज्ञातम्, तच्चाध्यक्षविरुद्धम्, रूपादिसंविदः स्फुटं संविच्या भिन्नस्वरूपावगमात् एकरूपत्वे चात्मनोऽनेकविधार्थस्य भोक्तृत्वाभ्युपगमो विरुध्येत, अभोक्त्रवस्थाव्यतिरिक्तत्वाद् भोक्त्रवस्थायाः, न च दिदृक्षादियोगाद
,
इत्यतः ' यत् सङ्घातरूपं वस्तु तत् परार्थम, यथा- शयना-ऽऽसनाऽभ्यङ्गादि' इत्युदाहरणम्, 'सङ्घातरूपाश्च चक्षुरादयः' इत्युपनय इत्येवमवयवद्वयप्रयोग एवाहतः । विधिसाधकतया कार्य-स्वभावहेतू एव बौद्धाभिमताविति प्रकृतः सङ्घातरूपत्वहेतुः परार्थत्वरूपस्य साध्यस्य न कार्य किन्त्वेकाश्रयगतयोस्तयोस्तादात्म्यमेवेति स्वभावहेतुरेवाऽयमित्याह - स्वभावहेतुरिति । सामान्यतः परार्थत्वसिद्धावप्यात्मा सिध्यत्येव, सङ्घातरूपस्य चक्षुरादेरसङ्घातरूप आत्मैव परोऽभिमतः, सङ्घातरूपस्यैव परस्याश्रयणे तस्यापि सङ्घातरूपापरार्थत्वम्, एवं तस्यापीत्यनिष्ठा स्यादित्याशयेनाह - यथासाविति । असौ सिध्यमानपरार्थत्वस्वरूपसाध्यसन्निविष्टः । स.मर्यादिति - हेतौ विनाभावः पक्षधर्मत्वं च बलम्, तत्राविनाभावरूप सामर्थ्यात् सामान्यतः साध्यस्य प्रसिद्धिः पक्षधर्मतारूपसामर्थ्याच्च साध्यविशेषस्य पक्षगतस्य सिद्धि:, प्रकृते सङ्घातरूपचक्षुरादिरूप पक्षधर्मत्वतोऽनवस्थाभयादसङ्घातपरार्थत्वस्यैव सिद्धिरिति सामर्थ्यात् पर आत्मेति सिद्धमित्यर्थः। एतस्य साङ्ख्याभिमतस्यायुक्तत्वमावेदयितुमाह- अत्रेति उक्तवाक्य इत्यर्थः । ' इत्यादि वदता ' इत्यनन्तरं साङ्ख्याचार्येणेति शेषः । तच चैतन्यं नित्यैकरूपमिति च । चैतन्यं रूपज्ञानरूपतया रसज्ञानरूपतया स्पर्शादिज्ञानरूपतया विभिन्नमेव प्रत्यक्षात्मक संवित्या प्रतीयत इति तस्यैकरूपत्व मध्यक्ष विरुद्ध मध्यक्षवाधितमिति स्पष्टयति
साध्यस्या