________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३७३ योगात् कस्यचित् कचित् प्रवृत्तिदृष्टा, स्वात्मभूतत्वाच्छक्तीनाम् । कारणकार्यविभागोऽप्य भेदैकान्तेऽयुक्त एव । पर्यायनये निरन्वयविनाशाच सर्वभावानां क्वचिदपि लयासिद्धेः 'अविभागाद् वैश्व. रूप्यस्य' इत्ययमपि हेतुरसिद्धः, लयो हि भवन् पूर्वस्वभावापगमे भावान्न कारणवमिति न कारणतया तसिद्धिरित्याह- तथाभूतेने तिव्यतिरिक्तानेकशक्तिसम्बन्धिनकत्वादिधर्मकलापाध्यासितेन प्रधानेनेत्यर्थः । 'अन्यथासिद्धेः' इत्यस्याऽनन्यथासिद्धिलक्षणव्याप्त्यामावा. दित्यर्थः, तथात्व एव शक्तितः प्रवृत्तियस्य कारणस्याऽस्ति न तस्योक्तरूपात्मना कारणस्वरूपतेत्यनेकान्तिकतेति, वस्तुतः 'तथाभूतेन क्वचिदप्यासिद्धः' इति पाठो युक्तः । तथाभूतेनार्थसिद्धौ कार्योत्पत्तिलक्षणायां सत्यासेव शक्तितः प्रवृत्तरित्यस्य तेन व्याप्ति न्यथेत्या. शयः। कथं तथाभूतेन नाऽन्यथासिद्धिर्नार्थसिद्धिवेत्यपेक्षायामाहन चेति- अस्य 'दृष्टा' इत्यनेनान्वयः। निषेधे हेतुमाह- स्वात्मभूतत्याच्छक्तीनामिति । 'कारण कार्यविभागाद्' इनि हेतुं प्रतिक्षिपतिकारणेति । कारणमिदं कार्य चेदमित्येवं कारण-कार्यविभागस्तदा भवेद् यदि तयोर्भवो भवेत् , साङ्खयाभिमते तु कारण-कार्ययोरेकान्ताभेदे यदेव कारणं तदेव कार्यमिति न तयोविभागसम्भव इत्याहअभेदेकान्लेऽयुक्त एवेति । 'अविभागाद् वैश्वरूप्यस्य' इति हेतोरसिद्धत्वादेवायुक्तत्वमित्याह- पर्यायनय इति-द्रव्यार्थिकनयप्रसूतत्वाद् द्रव्यार्थिकनयाऽऽभासे साङ्ख्यमते तु न निरन्धयविनाशः, किन्तु लयावस्थायां कार्य कारणरूपेणावतिष्टत इति वैश्वरूप्यस्याऽविभागः सम्भवतीत्यतः' 'पर्यायनये ' इत्युक्तम् , तत्र प्रथमविभागस्याऽ. सिद्धत्वमित्यपेक्षायामाह- निरन्वयविनाशाचेति-निरन्वयविनाशो नाम सर्वथा विनाशः, तन्मतेऽन्वयिनो द्रव्यस्यैवाभावान्न द्रव्यरूपेणाप्यवस्थानमिति । अत एव क्वचिदपि लयाऽसिद्धेरिति- यदि विनाशकाले स्वोगादानभूतद्रव्यरूपेणावस्थानं तदा तत्रैव तिरोभावलक्षणलयो