________________
३६४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
तत्र भोगान्पत्वनिवेशे गौरवात्, भोगत्वावच्छिन्नं प्रति वैजात्येन सुखदुःखयोरेव हेतुत्वे भोगाख्यमानसे चन्दनादिभानानुपपत्तेः, चन्दनादिभान एव विलक्षणे भोगत्वकल्पनौचित्यात्, ' इदं चन्दनम् ' इति
प्रतिबन्धकत्वमिति स स्यादेवेत्यत आह- तत्रेति - मानसे इत्यर्थः । भोगान्यमानसत्वावच्छिन्नं प्रति बहिरिन्द्रियजन्यलौकिकप्रत्यक्षसामय्याः प्रतिबन्धकत्वकल्पनापेक्षया मानसत्वावच्छिन्नं प्रत्येव तस्याः प्रतिबन्धकत्वकल्पनस्य लाघवादौचित्यादित्याशयः । अपि च भोगान्यमानसत्वावच्छिन्नं प्रति बहिरिन्द्रियजन्यलौकिकप्रत्यक्षसामय्याः प्रतिबन्धकत्वे बहिरिन्द्रियजन्यलौकिकप्रत्यक्षसामग्रीकाले भोगान्यमानसं मा भवतु, भोगाख्यमानसं तु तदानों जायमानं सुख-दुःखविषयकमिव घटादिविषयकमपि किं न स्यात् ? तस्य घटादिविषय कमान सरूपत्वेऽपि भोगान्यत्वाभावेन प्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वात्, तत्र घटादि विषयकत्वाभावार्थ यदि विषयतासम्बन्धेन भोगत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन सुख-दुःखयोरेव कारणत्वम्, तत्र यद्यपि सुखत्वं दुःखत्वं वा न कारणतावच्छेदकम्, सुखत्वेन कारणत्वे दुःखस्य, दुःखत्वेन कारणत्वे सुखस्य च भानं तत्र न स्यात्, तथापि सुख-दुःखोभयगतं वैजात्यमभ्युपेत्य तद्रूपेण तयोस्तत्र कारणत्वमुपेयत इति भोगविशेषे सुखस्य भानं भोगविशेषे च दुःखस्य भानमुपपद्यते, तदापि चन्दनसुखमिदम, शीतवेदनेयम्' इति चन्दनादिभानं यद भोगे भवति तन्न स्यादित्याह - भोगत्वावच्छिन्नं प्रतीति। दैजात्येन सुख-दुःखोभयगतवैजात्यविशेषेण । सुख-दुःखयोरेव ' इत्येवकारेण सुख-दुःखभिन्नस्य हेतुत्वव्यवच्छेदः । सुख दुःखान्यतरविषयक लौकिकमानस साक्षात्कारे भोगत्वकल्पनापेक्षया विलक्षणे चन्दनादिभाने भोगत्वकल्पने ज्ञानान्तराऽकल्पनप्रयुक्तलाघवमपीत्याह चन्दनादिभान एवेति । चन्दनादिमानम् इदं चन्दनम्' इत्याद्यपि, तच्च न भोगरूपमत आह- विलक्षणे इति, तथा च यादृशचन्दनभाने सुखसम्प्रत्ययस्तादृशचन्दनभाने भोगत्वम्,
-
,
6
(