________________
९८]
[ तत्त्वबोधिनीविवृतिविभूषितम् तदेव-सुवर्णमेव, तं तं-कुण्डलादिरूपम् , आकारं प्राप्तं तद्व्यपदेशंकुण्डलादिव्यपदेशं लभते, स्वरूपात्-पूर्वावस्थाभाविनः, उत्तरावस्थायाम् , अभिन्नमपि तत्तद्विशिष्टाकारनिवन्धनत्वान्न निर्निवन्धनस्तव्यपदेशः, न च विशिष्टभेदः शुद्धाभेदप्रतिबन्धीति भावः ॥
एवमपि यदि गुणानामन्यत्वमिष्यते तत्राह"जइ वा दव्वादन्ने गुणादओ नूण सप्पएसत्तं । होज व रूबाईणं विभिन्नदेसोवलभो वि" ॥
विशेषावश्यकभाष्यगाथा-२६७०] व्या०-यदि पुनद्रव्याद् रूपादयो गुणाः, आदिशब्दानवपुराणादयश्च पर्यायाः, अन्ये-व्यतिरेकिण इष्यन्ते, तदा नूनं-निश्चित गुणादीनां स्वप्रदेशत्वमापद्यते, द्रव्यप्रदेशा हि गुणादय इष्यन्ते, द्रव्यभेदाभ्युपगमे च तेषामनन्यशरणानां स्वप्रदेशत्वमेव स्यात् , न चैतद् दृष्टम् , इष्टं वा, गुणादीनां सदैव पारतन्त्र्येण परप्रदेशत्वस्यैव णाऽऽकारयोगात् कुण्डलादिव्यपदेशभेद इति न विभिन्नव्यपदेशस्य निनिमित्तत्वमित्याह-तत्तद्विशिष्टाऽऽकारेति । शुद्धाऽभेदेऽपि विशिष्टभेदसम्भवेन न कुण्डलाऽऽदिभेदतः सुवर्णमेदप्रसङ्ग इत्याह-न चेति, अन्यत् स्पष्टम् ॥
प्रकृतार्थसङ्गततयोत्तरगाथामवतारयति- एवमपीति । जइ वा० इति"यदि वा द्रव्यादन्ये गुणोदयो नूनं स्वप्रदेशत्वम् । भवेद् वा रूपादीनां विभिन्नदेशोपलम्भोऽपि"॥ इति संस्कृतम्। विवृणोतियदीति । आदिशब्दात् ‘गुणादयः' इत्यत्राऽऽदिशब्दात्। 'अन्ये' इत्यस्य 'व्यतिरेकिणः' इत्यर्थः। ' इध्यन्ते ' इति पूरणम् । तदेति यदीति बलाल्लब्धम् । नूनमित्यस्य निश्चितमित्यर्थः। द्रव्याद् भेदे गुणानां स्वप्रदेशत्वाऽऽपत्तौ हेतुमाह- द्रव्यप्रदेशा हीति । हि यतः। तेषां गुणा