________________
प्रमाणनयतत्त्वालोकालङ्कारः। त्वात् नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्य कुंभादेरिवतत्राप्यकरणत्वात् ।। ५॥ तव्यवसायस्वभावं समारोपपरिपन्थित्वात्प्रमाणत्वाद्वा॥६॥ अतस्मिस्तदध्यवसायः समारोपः ॥७॥ सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥ ८ ॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥९॥ यथा शुक्तिकायाभिदं रजतमिति ॥ १०॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशयः ॥ ११ ॥ यथाऽयं स्थाणुर्वा पुरुषोवेति ॥ १२ ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ १३ ॥ यथागच्छतस्तृणस्पर्शज्ञानम् ॥ १४ ॥ ज्ञानादन्योऽर्थः परः॥ १५ ॥ स्वस्य व्यवसायःस्वाभिमुख्येन प्रकाशनं बाह्यस्ये. वतदाभिमुख्येन करिकलभकमहमात्मनाजानामीति ॥ १६ ॥