________________
पं० जिनदासविरचिता
३२. परिग्रहाग्रहफलफुल्लनो नाम द्वात्रिंशत्तमः कल्पः
[ पृष्ठ २०३-२०४ ] ममेदमिति – बाह्याभ्यन्तरवस्तुषु गोमहिषमणिमुक्तादिषु बाह्यवस्तुषु रागादिषु च अभ्यन्तरवस्तुषु मम इदम् इति संकल्पः संरक्षणार्जन संस्कारादिरूपः परिग्रहः मतः तत्र चेतसः मनसः निकुञ्चनं सङ्कोचनं कुर्यात् तेषु मनोऽभिलाषं कर्शयेदित्यर्थः ॥ ४३२ ॥ बाह्यपरिग्रहान् व्याचष्टे - क्षेत्रं सस्योत्पत्तिस्थानम्, धान्यं शालिब्रीह्यादिकम् धनं हिरण्यरूप्यादि, वास्तु गृहं, कुप्यं क्षौम- कार्पास- कौशेय चन्दनादि । शयनं शय्या, आसनं पीठमञ्चादिकम्, द्विपदाः दासोदासम्, पशत्रः गोमहिषादयः, भाण्डं भाजनानि । इति बाह्या दश परिग्रहाः ॥४३३॥ अभ्यन्तरपरिग्रहाः समिध्यात्वा इति - मिथ्यात्वेन अतस्त्वश्रद्धानेन सहिताः त्रयो वेदाः स्त्रीवेदः पुरुषेण सह रमणाभिलाषः नार्यामुत्पद्यते । पुरुषवेद: नार्या सह रमणाभिलाषः पुरुषे । नपुंसक वेदः उभाभ्यां रमणाभिलाषः । हास्यादयः षट् हास्यं, रतिः, अरतिः, शोक, भयम् जुगुप्सा । चत्वारश्च कषायाः क्रोध- मान-माया-लोभाः । इति अन्तःपरिग्रहाः चतुर्दश । अन्तर्ग्रन्था अपि कथ्यन्ते । अन्तः आत्मनि यैः संसारः ग्रध्यते बध्यते ते ग्रन्थाः राग-द्वेष- लोभ-मोहादयः परिणामविशेषाः ते चात्मन्येव संभवन्ति ॥ ४३४ ॥ बाह्यान्तरङ्गपरिग्रहवर्णनम् — चेतनेति – बाह्येषु स्वस्माद् भिन्नेषु चेतनेषु गो-महिष पुत्र - कलत्रादिषु आसक्तिः एकः बाह्यश्चेतनपरिग्रहः मणिमुक्तायगृहादिषु अचेतनेषु आसक्तिः द्वितीयः अचेतनः बाह्यः परिग्रहः इति बाह्यचेत. नाचेतनपदार्थासक्तेः बाह्यपरिग्रहद्वैविध्यम् । परं भवहेत्वाशयाश्रयः संसारकारणा ये मिथ्यात्वाविरत्यादयः आशया: चैतन्यरूपाः परिणामाः ते आश्रयः आधारः यस्य स अन्तःपरिग्रहः एक एव । उपाधिभेदाद् द्विविधत्वम् अन्तःपरिग्रहस्य निगदन्त्याचार्याः शिष्यावबोधार्थम् ||४३५ || धनायेति - घनाया धनाभिलाषा तथा आविद्धबुद्धीनां व्याकुलमतीनां नराणां मनोरथाः अघनाः धनरहिता भवन्ति । हि यस्मात्कारणात् अनर्थक्रियारम्भा : तदर्थषु कामधुक् न भवति । अर्थः प्रयोजनं यस्याः सिध्यति सा क्रिया अर्थक्रिया न अर्थक्रिया अनर्थक्रिया अनर्थक्रियाया आरम्भो यस्यां सा धीः मतिः तदर्थषु अर्थार्थिषु धनार्थिषु कामधुक् न भवति कामान् इष्टाभिलषितान् न दुग्धे । इच्छया मनोरथैर्वा धनानि न लभ्यन्ते । धनप्राप्तिकारणम् अन्तरायकर्मणां क्षयोपशमोऽभाणि इति मत्वा आर्तध्यानं न कर्तव्यम् ||४३६ ॥ सहेति - सह युगपत् समकालीना संभूति: आत्मना सह जन्म यस्य स एष देहोऽपि यत्र शाश्वतः नित्यः न तत्र द्रव्यदारकदारेषु द्रव्यं धनम्, दारकः सुतः दारा पत्नी, एतेषु महात्मनां निःस्पृहाणां का आस्था कः प्रयत्नः ॥४३७॥ स इति यः धर्माय दानपूजनादिकार्याय धनागमं धनप्राप्ति न विनयेत नोपयुङ्क्ते, तथा भोगाय यः धनागमं नोपयुङ्क्ते तस्य स विफल एवाजागलस्तनवत् ॥४३८ ।। प्राप्ते इति-ये घने प्राप्ते लब्धे न माद्यन्ति न गविणो भवन्ति । ये प्राप्तिस्पृहयालवः न भवन्ति । धनप्राप्त्यै न स्पृहयन्ति च त एव महात्मानः लोकद्वयाश्रितां इहपरलोकयुगलाश्रितानां लक्ष्मीणां परमेश्वरा भवन्ति । उपर्युक्त एव महात्मानः इहलोके चक्रवर्तिश्रियं लभन्ते परलोके स्वर्गादो इन्द्रविभूति च प्राप्नुवन्ति । ॥ ४३९ || चित्तस्येति । हे चित्त हे मनः, वित्तस्य धनस्य चिन्तायाम् अभिलाषायाम् एनसः पापात् परम् अन्यत् फलं लाभो न । हि यतः उचितमेवैतत् अस्थाने अविषये क्लिश्यमानस्य प्रयतमानस्य नरस्य चित्तस्य वा क्लेशादुःखात्परम् अन्यत् फलं न भवति ॥ ४४० ॥ निःसंगस्य सुखं भवतीति निश्चिनोति - अन्तरिति - अन्तः संगे अन्तरङ्गे । परिग्रहे रागादी । बहिर्गते परिग्रहे मणिमुक्तादिके । यस्य मानसं निःसंगम् अनासक्तं भवति । स अगण्यपुण्यसंपन्नः असंख्यसुकृतपूर्णः नरः सर्वत्र सुखम् अश्नुते लभते ||४४१||
४५०
[ पृ० २०३
[ पृष्ठ २०५ ] बाह्येति बाह्ये मणिमुक्तादिषु पुत्रकलत्रादिके च । संगे परिग्रहे । रते आसक्ते । पुंसि पुरुषे । चित्तविशुद्धता मनोनैर्मल्यं कुतः कथं स्यात् । बहिः सतुषे धान्ये बाह्ये सत्वचि सस्ये अन्तः विशुद्धता अन्तनिर्मलता दुर्लभा भवति ॥ ४४२ ॥ सत्पात्रेति- त - यः पुरुषः सत्पात्रे रत्नत्रयवति मुनौ श्रावके च विनियोगेन धनार्पणेन अर्थसंग्रहतत्परः धनार्जने तत्परः प्रवणो भवति स लुब्धेषु महालुब्धः यतः लुब्धः यावज्जीवं धनं न त्यजति परं मृतः स्वेन सह अमुत्र परस्मिल्लोके धनं नेतुमसमर्थः । परं सत्पात्रे धनं विनियुञ्जानः परलोकेऽपि धनं नयति अतः स एव लुब्धेषु महालुब्धः ज्ञेयः ॥ ४४३ ॥ परिग्रहप्रमाणाणुव्रतहानिः प्रदर्श्यते - कृतेति - कृतं प्रमाणं परिमाणं यस्य तस्मात् घनात् । लोभेन अधिकसंग्रहः अधिकधनसंग्रहः यस्य भवति स गृहमेधिनां पञ्च