________________
-पृ० १०३]
उपासकाध्ययनटीका
३६७
कथयामास । विष्णमनिः प्रदीप इव स्फाटिकभित्तिमध्यलब्धप्रसरेण किरणनिकरेण यथा प्रदीपः स्वच्छमणिरचितकूडयमध्यादाप्तप्रचारेण रश्मिसमूहनेव, कथंभूतेन करेण । उच्यते, वारिधिवजवेदिकानिर्भेदनेन मानषोत्तरगिरिपर्यन्तसंवेदनेन सागरस्य वज्रतटस्फेटनं कुर्वता करेण हस्तेन, पुनः कथंभूतेन मानुषोत्तरो नाम गिरिः पुष्करद्वीपस्य बहुमध्यभागे वलयाकारो वर्तते तस्य पर्यन्तं यावत् संवेदनम् अनुभवो यस्य तेन । पुनः कथंभूतेन करेण मनुष्यक्षेत्रसूत्रपातविडम्बनकरेण करेण मनुष्यक्षेत्रस्य यो मानदण्डस्तस्य विडम्बनकरेण अनुकरणं कुर्वता करेण ऊर्णनाभ इव तन्तुनिकाय काये स्ववशाश्रयया व्याससमासक्रियया च तामवगम्य । यथा ऊर्णनाभस्तन्तुवायनामा कोटविशेषः स तन्तुसमूहे व्यासो विस्तारः समासः संक्षेपः तयोः क्रियया निजवशावारया स्वशक्ति जानाति तथा स्ववशाश्रयया निजाधीनाधारया विस्तारसंक्षेपक्रियया स्वकार्य स्वशरीरे च तामवगम्य ज्ञात्वा। उपगम्य च हास्तिनपुरं गत्वा च हस्तिनागपुरम् । 'न खल्बनिवेद्य निखिलवणिवर्णाश्रमपालाय मध्यमलोकपालाय आमर्पप्रवृत्ततन्त्रेण हकारमात्रेणापि कम्पितजगत्त्रया प्रसंख्यानवनविध्वंसदावे तपःप्रभावे दुर्जनविनयनार्थमभिनिविशन्त यतीशाः' न खल अनिवेद्य अकथयित्वा । कस्म । निखिलेति-निखिलाश्च ते वणिनः ब्राह्मणक्षत्रियवैश्यशूद्राः तेषां वर्णाः आचारविशेषाः आश्रमाश्च ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थता भिक्षुकत्वं चेति चत्वारश्चाश्रमाः तान् पालयतीति तस्मै । मध्यमलोकपालाय मध्यमो लोकः नृलोक: तं पालयतीति तस्मै नपतये । आमर्षप्रवत्ततन्त्रेण आमर्पः क्रोधस्तेन प्रवृत्तं तन्त्रं कार्य यस्य तेन हडकारमात्रेणापि कम्पितजगत्त्रयाः प्रसंख्यानं ध्यानं तदेव वनं तस्य ध्वंसो नाशस्तस्मै दावोऽग्निः तत्सदृश इति भावः तस्मिन् तपःप्रभावे सत्यपि दुर्जनविनयनार्थ दुर्जनान् सन्मार्गेऽवतारयितुं यतीशा मुनीश्वराः न अभिनिविशन्ते न प्रयतन्ते । मुनयो महाप्रभावास्तथापि भूपालमनिवेद्य स्वतपःप्रभावं न दर्शयन्ति इति भावः । इति च परामश्य मनसि विमर्श कृत्वा, प्रविश्य च पुरैव प्रथममेव चिरपरिचितकञ्चुकि सूचितप्रचारः अन्तःपुरं दीर्घकालमारभ्य विज्ञातसोविदल्लानुज्ञातप्रवेशः । प्रविश्य च अन्तःपुरम, पद्ममहीपते, राजधानीषु अरण्यानीषु वा 'महारण्यं अरण्यानो' इति महावनेषु इत्यर्थः । तपस्यतः संयतलोकस्य मुनिजनस्य । न खलु नरेश्वरान्नृपात् परोऽन्यः प्रायेण बहुशः गोपायिता रक्षिताऽस्ति । तत्कथं नाम तृणमात्रेऽपि अनपराधमतीनां तृणमात्रस्यापि हिंसाम् अकुर्वतां यतीनाम् आत्मनि अशुभलोकनिषेकसर्गम् अशुभो लोकः नरकतिर्यग्गतिषु जन्म तस्य निषेक: प्राप्तिः तस्य सर्गः प्रादुर्भावः यस्माद्भवेत तम उपसर्ग सहसा अविचारेण कथं करोषीति भावः इति भगवन् सत्यमेवैतत् । किं तु कतिचिद्दिनानि बलिरत्र राजा नाहम् ।' इति प्रत्युक्तियुक्तिस्थितं प्रतिवचनयुक्ती स्थितं पद्मनृपतिम् अवमत्य अवज्ञाय । छलेन निमित्तेन खलु परेषु प्रायेण बहुशः अन्येषु तपःप्रभवद्धिलीलाः तपोजाताः ऋद्धीनां लीलाः फलोल्लासनशीलाः फलप्रकटनस्वभावाः, इति वा अवगत्य विज्ञाय । शालाजिरसम्पुटकोटरावकासप्रदीपप्रकाश इव संजातवामनाकृतिः । शालाजिरस्य वर्धमानस्य शरावस्य वा 'शालाजिरो वर्धमानः शरावः स्मर्यते बुधः' इति हलायुधः । सम्पुटस्य च कोटरे मध्यभागे अवकाशोऽवगाहो यस्य तथाभूतस्य प्रदीपस्य प्रकाश इव संजातवामनाकृतिः प्रकटीकृत ह्रस्वनराकारः । सप्ततन्तुवसुमतीमनुसत्य सप्तभिरग्निजिह्वाभिस्तन्यते विस्तार्यते इति सप्ततन्तुर्यज्ञः तस्य वसुमतों भूमिम् अनुसृत्य अनुगम्य । मधुरध्वनिततीयन सवनेन मधुरध्वनिना सह तृतीयेन सवनेन उदात्तन स्वरेण प्राध्ययनम् उच्चैरध्ययनं वेदस्य व्यधात् अकरोत् ।
[पृष्ठ १०२-१०३] बलिरिति-बलिः मेघशब्दसुन्दरं वाक्प्रसरं वचनप्रवाहं सिन्धुर इव गज इव निभृतकर्णः वशीभूतश्रोत्रः निर्वर्ण्य दृष्ट्वा कोऽयं खलु वेदवाचि विरिञ्च इव उच्चारचतुरः वेदवचने ब्रह्म इव उच्चारणकुशलः, इति कुतूहलितहृदयः कुतुकितमनाः, सत्रनिलयानिर्गत्य सतः सज्जनान् त्रायते इति सत्रं यज्ञः तस्य निलयाद् गहात निर्गत्य । वयसि च निश्चिताश्चर्यसौन्दयं द्विजवर्यम् एनमवादीत् । वयसि तारुण्ये विज्ञाताद्भूतसौन्दर्यम् एनं विप्रश्रेष्ठम् अवादीत् अब्रवीत् । भट्ट, किमिष्टं वस्तु, चेतसि निधाय प्राधीपे' हे विद्वन्, कम् ईप्सितं पदार्थ धनादिकं हृदये संकल्प्य प्राधीषे उच्चर्वेदवचनानि ब्रूषे । 'बले दायादविलुप्तालयत्वात् तदर्थ पादत्रयप्रमाणकलमवनितलम । हे बलिमन्त्रिन, सनाभिहतगहत्वात् चरणत्रयमानसुन्दरं भूमितलं चेतसि निधायाहं वेदवचनानि प्रोच्च वे। द्विजोत्तम ब्राह्मणश्रेष्ठ मया ते निकामं यथेप्सितं दत्तम् । यद्येवं बहुमान