________________
સમયસાર : આત્મખ્યાતિ गंधो ज्ञानं न भवति यस्माद् गंधो न जानाति किंचित् । तस्मादन्यज्ञानमन्यं गंधं जिना विदंति ॥३९४॥ न रसस्तु भवति ज्ञानं यस्मात्तु रसो न जानाति किंचित् । तस्मादन्यज्ज्ञानं रसं चान्यं जिना विदंति ॥३९५॥ स्पर्शो न भवति ज्ञानं यस्मात्स्पर्शो न जानाति किंचित् । तस्मादन्यज्ञानमन्यं स्पर्श जिना विदंति ॥३९६॥ ___ . . कर्म ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । तस्मादन्यज्ञानमन्यत्कर्म जिना विदंति ॥३९७॥ धर्मो ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । . तस्मादन्यज्ञानमन्यत्कर्म जिना विदंति ॥३९८॥ ज्ञानमधर्मो न भवति यस्मादधर्मो न जानाति किंचित् । तस्मादन्यज्ञानमन्यमधर्मं जिना विदंति ॥३९९॥ कालो ज्ञानं न भवति यस्मात्कालो न जानाति किंचित् । तस्मादन्यद् ज्ञानमन्यं कालं जिना विदंति ॥४००॥ आकाशमपि न ज्ञानं यस्मादाकाशं न जानाति किंचित् । तस्मादाकाशमन्यदन्यज्ञानं जिना विदंति ॥४०१॥ नाध्यवसानं ज्ञानमध्यवसानमचेतनं यस्मात् । तस्मादन्यज्ञानमध्यवसानं तथान्यत् ॥४०२॥ यस्माजानाति नित्यं तस्माजीवस्तु ज्ञायको ज्ञानी । ज्ञानं च न ज्ञायकादव्यतिरिक्तं ज्ञातव्यं ॥४०३॥ ज्ञानं सम्यग्दृष्टिं तु संयमं सूत्रमंगपूर्वगतं । धर्माधर्मं च तथा प्रव्रज्यामभ्युप्यांति बुधाः ॥४०४॥ - न- श्रुतं ज्ञानमचेतनत्वात् ततो ज्ञानश्रुतयो यतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञानशब्दो व्यतिरेकः । न रूपं ज्ञानमचेतनत्वात ततो ज्ञानरूपयो य॑तिरेकः । न वर्णो ज्ञानमचेतनत्वात् ततो ज्ञानवर्णयो यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयो यतिरेकः । न रसो ज्ञानमचेतनत्वात् ततो ज्ञानरसयो यतिरेकः । न स्पर्शो ज्ञानमचेतनत्वात् ततो ज्ञानस्पर्शयो र्व्यतिरेकः । न कर्म ज्ञानचेतनत्वात् ततो ज्ञानकर्मणो यतिरेकः ।
૭૫૬