________________
षड्दर्शन समुछय भाग- २, श्लोक, ४८-४९, जैनदर्शन
४५९
આમ તમારામતમાં ભૂતોનું કાયારૂપે પરિણમન થવું સંગત થતું નથી. તેથી જ્યારે શરીર જ બની શકતું ન હોય, ત્યારે તેમાં શ્વાસોશ્વાસની પ્રક્રિયા ચાલુ કરવી તો અસંભવિત જ છે. આ પ્રમાણે કોઈપણ રીતે ચૈતન્ય ભૂતનું કાર્ય બની શકતું નથી. ચૈતન્ય તો આત્માનો ગુણ જ થઈ श: छे.
किंच गुणप्रत्यक्षत्वादात्मापि गुणी प्रत्यक्ष एव । प्रयोगो यथा-प्रत्यक्ष आत्मा, स्मृतिजिज्ञासाचिकीर्षाजिगमिषासंशयादिज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टः, यथा घट इति । प्रत्यक्षगुणश्च जीवः, तस्मात्प्रत्यक्षः । अत्राह परः-अनैकान्तिकोऽयं हेतुः, यत आकाशगुणः शब्दः प्रत्यक्षः, न पुनराकाशम् । तदयुक्तं, यतो नाकाशगुणः शब्दः किंतु पुद्गलगुणः, ऐन्द्रियकत्वात्, रूपादिवत् । एतञ्च पुद्गलविचारे समर्थयिष्यते । अत्राह ननु भवतु गुणानां प्रत्यक्षत्वात्तदभिन्नत्वादुणिनोऽपि प्रत्यक्षत्वम् । किंतु देह एव ज्ञानादयो गुणा उपलभ्यन्ते । अतः स एव तेषां गुणी युक्तः, यथा रूपादीनां घटः । प्रयोगो यथाज्ञानादयो देहगुणा एव, तत्रैवोपलभ्यमानत्वात्, गौरकृशस्थूलत्वादिवत् । अत्रोच्यतेप्रत्यनुमानबाधितोऽयं पक्षाभासः । तच्छेदम-देहस्य गुणा ज्ञानादयो न भवन्ति, तस्य मूर्तत्वाश्चाक्षुषत्वाद्वा, घटवत् । अतः सिद्धो गुणप्रत्यक्षत्वाद्गुणी जीवोऽपि प्रत्यक्षः । ततश्चाऽहंप्रत्ययग्राह्यं प्रत्यक्षमात्मानं निन्हुवानस्य अश्रावणः शब्द इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासः । तथा वक्ष्यमाणात्मास्तित्वानुमानसद्भावात् नित्यः शब्द इत्यादिवदनुमानविरुद्धोऽपि । आबालगोपालाङ्गनादिप्रसिद्धं चात्मानं निराकुर्वतः “नास्ति सूर्यः प्रकाशकर्ता" इत्यादिवल्लोकविरोधः । “अहं नाहं" चेति गदतः “माता मे वन्ध्या" इत्यादिवत् स्ववचनविरोधश्च । तथा प्रतिपादितयुक्त्यात्मनः स्वसंवेदनप्रत्यक्षत्वादत्यन्ताप्रत्यक्षत्वादिति हेतुरप्यसिद्ध इति स्थितम् । ટીકાનો ભાવાનુવાદ વળી જ્ઞાનાદિગુણો પ્રત્યક્ષ હોવાથી ગુણીએવો આત્મા પણ પ્રત્યક્ષ જ માનવો વધુ ઉચિત छ. मनुभानप्रयोगमा प्रभारी छ - "मात्मा प्रत्यक्षमा विषय छ, १२५ स्मृति, शिक्षा, विही[ (र्य ४२वानी ४७), गिमिषा (४वानी - ३२वानी ४७), संशयादि शान ઇત્યાદિ તેના ગુણોનું સ્વસંવેદનપ્રત્યક્ષ થાય છે. અર્થાત્ સ્મૃતિઆદિ આત્માના ગુણોનો સ્વસંવેદનપ્રત્યક્ષથી અનુભવ થાય છે”