________________
४४४
षड्दर्शन समुचय भाग - २, श्लोक, ४८-४९, जैनदर्शन
प्रतिभाति इत्यभिधातव्यं, तस्य “स्थूलोऽहं कृशोऽहं” इत्यादिवच्छरीरविषयत्वस्यैवोपपत्तेः, न खलु तत्प्रत्ययस्यात्मालम्बनत्वमस्ति, आत्मनि स्थौल्यादिधर्मासंभवात् । तथा “घटमहं वेदिम" इत्यस्यापि प्रत्ययस्य न शरीरादन्यो भवत्परिकल्पितः कश्चनाप्यात्माऽऽलम्बनत्वेन स्वप्नेऽपि प्रतीयते, अप्रतीतस्यापि कल्पने कल्पनागौरवं प्रतिनियतवस्तुव्यवस्थाया अभावश्च स्यात् । नच जडरूपस्य शरीरस्य घटादेरिवाहंप्रत्ययोऽनुपपन्नः इति वाच्यं, चेतनायोगेन तस्य सचेतनत्वात् । नच सा चेतना जीवकर्तृका इति वाच्यं, तस्याऽप्रतीतत्वात् तत्कर्तृत्वमयुक्तं, खपुष्पादेरपि तत्प्रसङ्गात् । ततःप्रसिद्धत्वाच्छरीरस्यैव चैतन्यं प्रति कर्तृत्वं युक्तं, तदन्वयव्यतिरेकानुविधायित्वाञ्च । प्रयोगश्चात्र-यत्खलु यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य कार्य, यथा घटो मृत्पिण्डस्य । शरीरस्यान्वयव्यतिरेकावनुकरोति च चैतन्यम् तस्मात्तत्कर्तृत्वम् । अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ चात्र विद्येते, सति शरीरे चैतन्योपलब्धेः, असति चानुपलब्धेः । नच मृतशरीरे चैतन्यानुपलब्धेस्तदन्वयव्यतिरेकानुविधायित्वमसिद्धं इति वाच्यं, मृतावस्थायां वायुतेजसोरभावेन शरीरस्यैवाभावात्, विशिष्टभूतसंयोगस्यैव शरीरत्वप्रतिपादनात् । नच शरीराकारमात्रे चैतन्योत्पत्तिर्युक्ता, चित्रलिखिततुरङ्गमादिष्वपि चैतन्योत्पत्तिप्रसङ्गात् । ततः सिद्धं शरीरकार्यमेव चैतन्यम् । ततश्च चैतन्यसहिते शरीर एवाहप्रत्ययोत्पत्तिः सिद्धा । इति न प्रत्यक्षप्रमेय आत्मा, ततश्चाविद्यमान एव । प्रयोगश्चात्र-नास्त्यात्मा, अत्यन्ताप्रत्यक्षत्वात् यदत्यन्ताप्रत्यक्षं तन्नास्ति, यथा खपुष्यम् । यञ्चास्ति तत्प्रत्यक्षेण गृह्यत एव, यथा घटः । अणवोऽपि ह्यप्रत्यक्षाः, किं तु घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि प्रत्यक्षभावमुपगच्छति, अतोऽत्रात्यन्तेति विशेषणमिति न परमाणुभिर्व्यभिचार इति १ ।
ટીકાનોભાવાનુવાદ (હવે આત્માને સ્વતંત્રપદાર્થ નહિ માનનારો ચાર્વાક ચર્ચાની શરૂઆત કરે છે.) પૂર્વપક્ષ (ચાર્વાક) : આ જગતમાં કાયાના (શરીરના) આકારમાં પરિણત તથા ચેતનાના કારણભૂત ભૂતો જ ઉપલબ્ધ થાય છે. પરંતુ તે ભૂતોથી અતિરિક્ત પરલોકગામિ તથા ઉપરોક્ત વિશેષણોથીયુક્ત (અર્થાત્ પરલોકગામિ, જ્ઞાનાદિગુણવાનું, કર્તા, ભોક્તા એવો) કોઈપણ