________________
षड्दर्शन समुनय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णय
कर्मणा अन्यस्य फलोपभोगे सर्वविश्ववैसंस्थुल्यापत्तेः ।
केचिनिखिलवासनोच्छेदे विगतविविधविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्ष इति मन्यते तदप्ययुक्तम् । समलचित्तक्षणानां स्वाभाविक्याः. सदृशारम्भणशक्तेरसदृशामलज्ञानक्षणारम्भं प्रत्यशक्तेश्चाकस्मादनुच्छेदात् । तस्मात् सर्वं न क्षणिकम् । किन्तु, अनाद्यनन्तो ज्ञानादिगुणाधारो नित्यो जीवः । उक्तं च
जीर्णानि वासांसि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।।
[भगवद् गीता २.२२] स च जीवः सर्वकर्मक्षयेऽवाप्तानन्तज्ञानो मुक्तस्वरूपो विजयते । उक्तं च
शीवः शिवो शिवो जीवः शिवाज्जीवो न भिद्यते ।। कर्मबद्धो भवेज्जीवः कर्ममुक्तः सदाशिवः ।।'
तथा मीमांसकानां सर्वज्ञः कोऽपि नास्तीति, तदुक्ता आगमा अपि न सन्ति । ततोऽपौरुषेयत्वेन नित्या वेदा एव प्रमाणम् । तत्र यागादिक्रियां प्रति प्रवर्तकवचोरूपो नोदनालक्षणो धर्मः । प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि षट् प्रमाणानि । ब्रह्मादैतवादिनां चैषामात्मन्यात्मलयो मोक्षः । ___ इत्थं चैवेते नोद्याः । नन्वेष सर्वज्ञो भवता ज्ञातो निषिध्यते अज्ञातो वा । ज्ञातश्चेत् तर्हि तज्ज्ञापकप्रमाणसद्भावात् कथं निषेधः ? । अज्ञातश्चेन्न, अज्ञातस्य घटादेरपि निषेद्धुमशक्यत्वात् । किञ्च, सर्वज्ञो नास्तीति यदुच्यते तत् किमत्र देशेऽत्र काले, सर्वदेशेषु सर्वकालेषु वा ? आद्यः पक्षोऽस्माकमप्यभिमतः, द्वितीयपक्षे तु यः कोऽपि सर्वदेशसर्वकालगतं सर्वज्ञो नास्तीत्यादिकं स्वरूपं जानाति स एव सर्वज्ञः । ततः कथं सर्वज्ञाभावः । एवं सर्वज्ञसिद्धौ तदुक्ता आगमाः प्रामाण्येन सिद्धा एव, आप्तवचनत्वात् ।। ____ तथा वेदा अपौरुषेया इत्यप्ययुक्तम् । यतः शास्त्रं वचनात्मकम्, वचनं च पुरुषताल्वोष्ठादिव्यापारं विना न क्वाप्युपलभ्यते । अतोऽपौरुषेयत्वाभावान्न नित्या वेदाः । किञ्च, नित्या वेदाश्चेत्तर्हि किमुपलभ्यभावा अनुपलभ्यभावा वा ? । अत्र पक्षद्वयेऽपि दोषः । नित्यत्वेन
१. तुलना-जीवः शिवः शिवो जीवः स जीवः केवल: शिवः ।
पाशवद्धः पशुर्देवि पाशगुक्तः सदाशिवः ।। तुपेण बद्धो व्रीहिः स्या-तुपाभावे तु तण्डुलम् । कर्मवद्धः सदा जीवः कर्ममुक्तः सदाशिवः ।।
-तन्त्र