________________
षड्दर्शन समुझय, भाग-२, परिशिष्ट -६, षड्दर्शन निर्णय
८९३
/ पशिष्ट - ७
श्री मेरुतुंगसूरीसंदृब्धः ।। श्री षड्दर्शननिर्णयः ।।
।। ॐ नमः परमात्मने ।। चिदानन्दैक' रूपाय सर्वापाय' तिरस्कृते ।
ध्यानगम्यस्वरूपाय नमोऽस्तु परमात्मने ।।१।। ...तथाहि-इह किल रूढितश्चत्वारो वर्णाश्चत्वार आश्रमाः षड्दर्शनानि इत्यादि-विचित्र विश्वव्यवस्थितिः । परं सर्वेषामप्येषामहमेवेति अहंभावः स स्वभावादाविर्भवन् दुर्निवारः, परमार्थदृशा वीक्ष्यमाणः सर्वथाऽनुचितश्च । कथमिति चेदुच्यते-किल ब्राह्मण-क्षत्रिय-वैश्यशूद्रश्चत्वारो वर्णाः । तेषां मध्ये ब्राह्मणो वर्णः ज्यषेठः श्रेष्ठश्चेति यद्यपि लोकव्यवहारः, परं तद् ब्राह्मण्यं सत्य-तपोदयेन्द्रियदमादिरूपब्रह्मात्मकं मुख्यलक्षणम्, परैर्जात्यादिभिर्यज्ञोपवीतादिभिश्च सर्वथा न भवतीति प्राक्बौद्धाचार्येण निर्णीतम् । अत एवोक्तं श्रुतौ
सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः ।
सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम् ।।१।। तथा-ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः ।
अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ।। सत्यादिरूपं च ब्रह्म निर्मलस्वभावतया जायमानं सर्वेष्वपि वर्णेषु घटत एव ।
सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः । ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ।।
इति श्रुतप्रामाण्यात् । तथा ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चेति चत्वार आश्रमाः । तत्राद्यमाश्रमद्वयं गृहस्थानामुचितम्, अन्त्याश्रमद्वयं च यतीनाम् । ततो यद्यपि व्यवहारतो गृहस्थानां यतयः पूज्या एव, परं तद् यतित्वं भावरहितं, न वनवास-वल्कलपरिधान-पुष्प-फल-पत्राहारादिभिः स्यात् । वनेचराणामपि वनवासादि सर्वमस्ति, न च ते यतयः । तथा न भूशयनोञ्छवृत्तिशीतातपसहनादिभिः, मृगादीनामपि तद्भावात् । नाङ्गसंस्कारत्यागादिभिः वृषलाणामपि तद्दर्शनात् । न भिक्षाटन-निरशनतादिभिः दुर्भिक्षादौ बहूनामपि तत्संभवात् । न आकिञ्चन्यादिभिः दुर्गतानामपि १. अद्वितीयस्य २. कष्ट ३. अयोग्यः । ४. अपरिग्रह